________________
आगम
(०१)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [४०]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ ५ ], मूलं [३९], निर्युक्तिः [१५१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि ?, ज्ञानक्रियाभ्यां तदुक्तम्- "नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता । न समत्था दाउँ जे जम्ममरणदुक्खदाहाई ॥ १ ॥” यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादविषयाऽऽह - 'मत्ता मइमं' मत्वा - ज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान्, मतिमानेवोपदेशार्हो भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह - 'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः- संयमः, स च सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरनिर्वाहकं विदित्वा वनस्यत्यारम्भान्निवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह-'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भं 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात्, तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूया प्रवर्त्तमानस्य, अभिलपितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनङ्क्षुपङ्गचक्षुर्ज्ञानवदिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्सरिहारः कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति- 'एसोवरए' ति एष एव सर्वस्मादारम्भाद्वनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाकि शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति- 'एत्थोव
१ शानं क्रियारहितं क्रियामात्रं च द्वे अप्येकान्तात् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥ १ ॥
Jan Estication Intemational
For Par Pry Use Onl
~ 127 ~#