________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[३८]
दीप
तस्यां च बतौं प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नाम्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ पर्तिस्तथा प्रत्येकतरुशरीरसातः, यथा च सर्पपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिताः जीवाः, पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह | साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति ॥ अस्मिन्नेधार्थे दृष्टान्तान्तरमाह
जह वा तिलसकुलिया बहुएहिं तिलहि मेलिया संती । पत्तेयसरीराणं तह हुँति सरीरसंघाया ॥ १३२ ॥ यथा वा तिलशकुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलनिष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिपयाऽऽह
नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥१३३ ॥ नानाविध-भिन्न संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिघित्सयाऽऽह
पत्तेया पज्जत्ता सेढी' असंखभागमित्ता ते । लोगासंखप्पज्जत्तगाण साहारणाणता ॥ १३४॥ प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुन
अनुक्रम [३९]]
RAKAKARA
wwwandltimaryam
~119~#