________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२८], नियुक्ति: [११५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम [२९]
पुढो सत्थेहिं विउद्दन्ति (सू०२८) 'पृथग' विभिन्नलक्षणः नानारूपैरुत्सेचनादिशौस्ते अनगारायमाणाः 'विउदृन्ति'त्ति अप्कायजीवान् जीवनान्यावर्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुदृन्ति-छिन्दन्तीत्यर्थः, कुहेर्द्धातोः छेदनाअर्थत्वात् । अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह
एत्थऽवि तेसिं नो निकरणाए (सू० २९) 'एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पा णे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेषामयमागमो यद्बलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाए'त्ति नो निश्चयं कर्नु समों भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय | RI नालमिति, अत्रोच्यते, त एवं प्रष्ट व्याः-कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायारम्भः, त आहुः-प्रतिविशिष्ठानुपु विन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा । ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्तव्यः, अनाप्तोऽसौ अप्कायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापां प्राक् प्रसा-| धितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्मचोदनायामप्रमाणम् , अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत् , अथ नित्योऽकर्तृका समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं, यतः शक्यते वक्तुं-भवदभ्युपगतः समयः सकर्तृको वर्णपदवा
C
SH
-4
अप्कायस्य हिंसकाः
~99-23