________________
षड्दर्शन समुच्चय भाग -
२, श्लोक, ४८ - ४९, जैनदर्शन
६३ / ६८६
लभ्यन्ते, न पुनस्तेभ्यो व्यतिरिक्तो भवान्तरयायी यथोक्तलक्षणः कश्चनाप्यात्मा, तत्सद्भावे प्रमाणाभावात् । तथाहि - भूतव्यतिरिक्तात्मसद्भावे किं प्रत्यक्षं प्रमाणं प्रवर्तेत उतानुमानम् ? न तावत्प्रत्यक्षं, तस्य प्रतिनियतेन्द्रियसंबद्धरूपादिगोचरतया तद्विलक्षणे जीवे प्रवृत्त्यनुपपत्तेः । न च “घटमहं वेद्मि” इत्यहंप्रत्यये ज्ञानकर्तृतयात्मा भूतव्यतिरिक्तः प्रतिभाति इत्यभिधातव्यं, तस्य " स्थूलोऽहं कृशोऽहं” इत्यादिवच्छरीरविषयत्वस्यैवोपपत्तेः, न खलु तत्प्रत्ययस्यात्मालम्बनत्वमस्ति, आत्मनि स्थौल्यादिधर्मासंभवात् । तथा " घटमहं वेद्मि ” इत्यस्यापि प्रत्ययस्य न शरीरादन्यो भवत्परिकल्पितः कश्चनाप्यात्माऽऽलम्बनत्वेन स्वप्नेऽपि प्रतीयते, अप्रतीतस्यापि कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाया अभावश्च स्यात् । नच जरूपस्य शरीरस्य घटादेरिवाहंप्रत्ययोऽनुपपन्नः इति वाच्यं, चेतनायोगेन तस्य सचेतनत्वात् । नच सा चेतना जीवकर्तृका इति वाच्यं तस्याऽप्रतीतत्वात् तत्कर्तृत्वमयुक्तं, खपुष्पादेरपि तत्प्रसङ्गात् 1 ततः प्रसिद्धत्वाच्छरीरस्यैव चैतन्यं प्रति कर्तृत्वं युक्तं, तदन्वयव्यतिरेकानुविधायित्वाच्च । प्रयोगश्चात्र- यत्खलु यस्यान्वयव्यतिरेकावनुकरोति तत्तस्य कार्यं, यथा घटो मृत्पिण्डस्य । शरीरस्यान्वयव्यतिरेकावनुकरोति च चैतन्यम् तस्मात्तत्कर्तृत्वम् । अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ चात्र विद्येते, सति शरीरे चैतन्योपलब्धेः, असति चानुपलब्धेः । नच मृतशरीरे चैतन्यानुपलब्धेस्तदन्वयव्यतिरेकानुविधायित्वमसिद्धं इति वाच्यं, मृतावस्थायां वायुतेजसोरभावेन शरीरस्यैवाभावात्, विशिष्टभूतसंयोगस्यैव शरीरत्वप्रतिपादनात् नच शरीराकारमात्रे चैतन्योत्पत्तिर्युक्ता, चित्रलिखिततुरङ्गमादिष्वपि चैतन्योत्पत्तिप्रसङ्गात् । ततः सिद्धं शरीरकार्यमेव चैतन्यम् । ततश्च चैतन्यसहिते शरीर एवाहंप्रत्ययोत्पत्तिः सिद्धा । इति न प्रत्यक्षप्रमेय आत्मा, ततश्चाविद्यमान एव । प्रयोगश्चात्र-नास्त्यात्मा, अत्यन्ताप्रत्यक्षत्वात् यदत्यन्ताप्रत्यक्षं तन्नास्ति, यथा खपुष्पम् । चास्ति तत्प्रत्यक्षेण गृह्यत एव यथा घटः । अणवोऽपि प्रत्यक्षाः, किं तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि प्रत्यक्षभावमुपगच्छति, अतोऽत्रात्यन्तेति विशेषणमिति न परमाणुभिर्व्यभिचार इति १ ।
व्याख्या का भावानुवाद : ( अब आत्मा को स्वतंत्र तत्त्व नहि माननेवाला चार्वाक चर्चा का प्रारंभ करता है।)
Jain Education International
पूर्वपक्ष ( चार्वाक ) : इस जगत में काया के (शरीर के) आकार में परिणत तथा चेतना के कारणभूत भूत ही उपलब्ध है । परंतु उस भूतो से अतिरिक्त परलोकगामि तथा उपरोक्त विशेषणो से युक्त (अर्थात् परलोकगामि, ज्ञानादिगुणवान्, कर्ता, भोक्ता ऐसा कोई भी आत्मा नहीं है । क्योंकि ऐसे आत्मा की संत्ता
For Personal & Private Use Only
www.jainelibrary.org