SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन ६१/ ६८४ चैतन्यलक्षणो जीवो यश्चैतद्विपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुष्टलाः ।।४९ ।। श्लोकार्थ : ज्ञानादिधर्मो से भिन्नाभिन्न स्वरुप, मनुष्यादि पर्यायो को धारण करनेवाला (विवृत्तिमान्) शुभाशुभकर्मो का कर्ता, कर्म के फल का भोक्ता, चैतन्यस्वरुप जीव है। उससे विपरीत (चैतन्यशून्य) को अजीव कहा जाता है तथा शुभकर्मो के पुद्गलो को पुण्य कहा जाता है। ___ व्याख्या-तत्रेति निर्धारणार्थः । ये ज्ञानदर्शनचारित्रसुखदुःखवीर्यभव्यत्वाभव्यत्वसत्त्वप्रमेयत्वद्रव्यत्वप्राणधारित्वक्रोधादि परिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यावृत्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, ते ज्ञानादयो धर्मा उच्यन्ते । तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्, तदा “अहं जानामि, अहं पश्यामि, अहं ज्ञाता, अहं द्रष्टा, अहं सुखितः, अहं भव्यः" चेत्याद्यभेदप्रतिभासो न स्यात्, अस्ति च सर्वप्राणिनां सोऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात् तदा “अयं धर्मी, एते धर्माः” इति भेदबुद्धिर्न स्यात्, अस्ति च सा । अथवाऽभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यात्, एकजीवाऽभिन्नत्वात् । तथा च “मम ज्ञानं मम दर्शनं चास्ति' इत्यादिज्ञानादिधर्माणां मिथोभेदप्रतीतिर्न स्यात्, अस्ति च सा । ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः । अनेन धर्मधर्मिणोवैशेषिकाद्यभिमतं भेदैकान्तं सौगतस्वीकृतं चाभेदैकान्तं प्रतिक्षिपति, सौगतेनापि बुद्धिक्षणपरंपरारूपस्यात्मनो धर्मित्वेन स्वीकारात्, । तथा विविधं वर्तनं विवृत्तिनरामरादिपर्यायान्तरानुसरणं तद्वान् विवृत्तिमान्, अनेन भवान्तरगामिनमात्मानं प्रति विप्रतिपन्नांश्चार्वाकान् कूटस्थनित्यात्मवादिनो नैयायिकादीन्निरस्यति । तथा शुभाशुभानि कर्माणि करोतीति शुभाशुभकर्मकर्ता । तथा स्वकृतस्य कर्मणो यत्फलं सुखादिकं, तस्य साक्षाद्भोक्ता च । चकारो विशेषणानां समुञ्चये । एतेन विशेषणद्वयेनाकर्तारमुपचरितवृत्त्या भोक्तारं चात्मानं मन्यमानानां सांख्यानां निरासः । तथा चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्य स चैतन्यलक्षणः, एतेन जडस्वरूपो नैयायिकादिसंमत आत्मा व्यवच्छिद्यते । एवंविशेषणो जीवः समाख्यात इत्यत्रापि संबन्धनीयमिति ।। व्याख्या का भावानुवाद : श्लोक में "तत्र" पद निर्धारणार्थक है। जो ज्ञान, दर्शन, चारित्र, सुख, दुःख, वीर्य, भव्यत्व, अभव्यत्व, प्रमेयत्व, द्रव्यत्व, प्राणधारित्व, क्रोधादि परिणतत्व, संसारित्व, सिद्धत्व, परवस्तुव्यावृत्तत्व इत्यादि स्व-पर पर्याय जीव के है, उसे ज्ञानादिधर्म कहे जाते है। उस ज्ञानादिधर्मो से जीव (सर्वथा) भिन्न भी नहीं है या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy