________________
षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ)
सन्मति० टी० पृ० ५५३ । प्रमा० नय० २।९ । प्रमाणमी० १ । १ । २८ । न्ययादी० पृ० १ । जैनतर्कभा० पृ० ५ ।
६९१/१३१३
(F-73) "धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च धारणा प्रतिपत्तिः अवधारणमवस्थानं निश्चयोऽवगमः अवबोधः इत्यनर्थान्तरम् ।" तत्त्वार्थाधि० भा० ११५ । अथैतस्य कालान्तरेऽविस्मरणकारणं धारणा । सर्वार्थसि० १।१५ । लघी० श्लो० ६ । राजवा० १।१५ | धवलाटी० सत्प्ररू० प्रमाणप० पृ० ६८ | सन्मति टी० पृ० ५५३ । प्रमा० नय० २।१० । प्रमाणमी० १ । १ । २९ । न्यायदी० पृ० ११ । जैनतर्कभा० पृ० ५ ।
(F-74) "पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् । प्रमाणफलयोः क्रमभेदेऽपि तादात्म्यमभिन्नविषयत्वं च प्रत्येयम् ।" लघी० स्ववृ० श्लो० ७ । “पूर्वपूर्वप्रमाणमुत्तरोत्तरं फलमिति क्रमः ।" प्रमाणवार्तिकालं० ३।३।१० । “तथा पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलमिति ।" न्यायवि० टी० टि० पृ० ४० । सन्मति० टी० पृ० ५५३ । अवग्रहादीनां क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् । प्रमाणमी० १ । १ । ३९ ।
(F-75) “अविसंवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा । स्मृतिः संज्ञायाः प्रत्यवमर्शस्य । संज्ञा चिन्ताया: तर्कस्य । चिन्ता अभिनिबोधस्य अनुमानादेः ।" लघी० स्ववृ० श्लो० ११ | सन्मति० टी०
५५३
(F-76) “ज्ञानमाद्यं मति: संज्ञा चिन्ता वा (चा) भिनिबोधकम् । प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् । प्राक् शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ||" लघी० स्ववृ० श्लो० १० ।
(F-77) “आभिनिबोधिकज्ञानस्यैव त्रिकालविषयस्यैते पर्याया नार्थान्तरतेति मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यस्यानर्थान्तरमेतदिति ।" तत्त्वार्थाधि० भा० टी० १।१३ ।
(F-78) “अत्र च यत् शब्दसंयोजनात् प्राक् स्मृत्यादिकमविसंवादिव्यवहारनिर्वर्तनक्षमं प्रवर्तते तन्मतिः शब्दसंयोजनात् प्रादुर्भूतं तु सर्वं श्रुतमिति विभाग: ।" - सन्मति० टी० पृ० ५५३ ।
(F-79) “जं परदो विण्णाणं तं तु परोक्खत्ति भणिदमत्थेसु ||५९ ||" प्रव० सार पृ० ७५ । पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्य आत्मन उत्पद्यमानं मतिश्रुतं परोक्षम् इत्याख्यायते । सर्वार्थसि० पृ० ५९ । " अक्खस्स पोग्गलकया जं व्विदियमणा परा तेणं । तेहिं तो जं पाणं परोक्खमिह तमणुमाणं व ॥ ९० ॥ " विशेषाव० भा० । “परोक्षं शेषविज्ञानम् ।" लघी० श्लो० ३ । अक्षाद् आत्मनः परावृत्तं परोक्षम्, ततः परैः इन्द्रियादिभिः उक्ष्यते सिञ्च्यते अभिवर्ध्यते इति परोक्षम् | तत्त्वार्थश्लो० पृ० १८२ । परोक्षमविशद् ज्ञानात्मकम् । प्रमाणप० पृ० ६९ | सन्मति० टी० पृ० ५९५ । परोक्षमितरत् । परीक्षामु० ३ । १ । न्याययाव० श्लो० ४ । प्रमाणनय० ३ | १ | प्रमाणमी० ३ । १ । पञ्चाध्या० श्लो० ६९६ ।
(F-80) "प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमं भेदम् ।" परीक्षामु० ३।२ । लघी०
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International