________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ७१, मीमांसक दर्शन
में विध्यर्थ यज्ञ करने की प्रेरणा देते है । इसलिए वह धर्म है। (अर्थात् "स्वर्ग की इच्छावाला अग्निहोत्र यज्ञ करे" यह वेदवचन स्वर्ग की इच्छावाले पुरुष की प्रवृत्ति में प्रवर्तक बनता है । इसलिए वह धर्म है।) ॥७१॥
३५६/९७९
व्याख्या- नोद्यन्ते प्रेर्यन्ते श्रेयः साधकद्रव्यादिषु प्रवर्त्यन्ते जीवा अनयेति नोदनावेदवचनकृता प्रेरणेत्यर्थः । धर्मो नोदनया लक्ष्यते ज्ञायते इति नोदनालक्षणः । धर्मो ह्यतीन्द्रियत्वेन नोदनयैव लक्ष्यते नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानोपलम्भकत्वात्, धर्मस्य तु कर्तव्यतारूपत्वात् कर्तव्यतायाश्च त्रिकालशून्यार्थरूपत्वात्, त्रिकालशून्यकार्यरूपार्थविषयविज्ञानोत्पादिका (चो) नोदनेति मीमांसकाभ्युपगमात् । अथ नोदनां व्याख्याति “नोदना तु क्रियां प्रति" इत्यादि । नोदना पुनः क्रियां हवनसर्वभूताऽहिंसनदानादिक्रियां प्रति प्रवर्तकं वचो वेदवचनं प्राहुर्मीमांसका भाषन्ते । हवनादिक्रियाविषये यदेव प्रेरकं वेदस्य वचनं सैव नोदनेति भावः । प्रवर्तकं तद्वचनमेव निदर्शनेन दर्शयति “स्वःकामोऽग्निं यथा यजेत्” इति । यथेत्युपदर्शनार्थः । स्वः स्वर्गे कामो यस्य स स्वः कामः पुमान् स्वःकामः सन् । अग्निं-वह्निं यजेत्-तर्पयेत् । अत्रेदं श्लोकबन्धानुलोम्येनेत्थमुपन्यस्तम् । अन्यथा त्वेवं भवति । “अग्निहोत्रं जुहुयात्स्वर्गकाम” [ मैत्र्यु० ६ । ३] इति प्रवर्तकवचनस्योपलक्षणत्वात् । निवर्तकमपि वेदवचनं नोदना ज्ञेया, यथा “न हिंस्यात्सर्वभूतानि” इति । एवं “ न वै हिंस्रो भवेत्” इत्याद्यपि । आभिर्नोदनाभिर्नोदितो यदि यथा नोदनं यैर्द्रव्यगुणकर्मभिर्यो हवनादौ प्रवर्तते निवर्तते वा, तदा तेषां द्रव्यादीनां तस्याभीष्टस्वर्गादिफलसाधनयोग्यतैव धर्म इत्यभिधीयते । एतेन वेदवचनैः प्रेरितोऽपि यदि न प्रवर्तते न निवर्तते वा विपरीतं वा प्रवर्तते, तदा तस्य नरकाद्यनिष्टफलसंसाधनयोग्यतैव द्रव्यादिसंबन्धिनी पापमित्युच्यत इत्यपि ज्ञापितं द्रष्टव्यम् । इष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्माविति हि मीमांसकाः । उक्तं च शाबरे“य एव श्रेयस्करः स एव धर्मशब्देनोच्यते " [शाबरभा० १।१ । २] अनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्मः इति प्रतिपादितं शबरस्वामिना । भट्टोऽप्येतदेवाह - " श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । नोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ।। १ ।। [ मी० श्लो० चोदना सू० श्लो० १३१] एषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता । क्षेयःसाधनता ह्येषां नित्यं वेदात्प्रती । । २ । । च धर्मत्वं तस्मान्नेन्द्रियगोचरः । ” इति [ मी० श्लो० चोदना सू० २लो० १९१ ] ।।७१।।
व्याख्या का भावानुवाद :
जिसके द्वारा जीव कल्याणकारी द्रव्यो के बारे में प्रेरित बनके प्रवृत्त होता है, उस वेदवचनो से होनेवाली प्रेरणा को नोदना - चोदना कहा जाता है। धर्म नोदना के द्वारा लक्षित होता है । इसलिए धर्म का लक्षण नोदना है।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org