SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८४/९०७ षड्दर्शन समुञ्चय भाग - २, श्लोक - ५७, जैनदर्शन उस सामान्य के आधारभूत व्यक्तियों का भी निश्चय प्रत्यक्ष और अनुमान से हो जायेगा और इसलिए समस्त व्यक्तियों का निश्चय होने से वह निश्चय जिनको हुआ होगा, उसका भी निश्चय होने से इस अनुसार से सभी जीव सर्वज्ञ बन जायेंगे। किं च, स्वाश्रयेन्द्रियसंयोगात्प्राक् स्वज्ञानमजनयत्सामान्यं पश्चादपि न तज्जनयेत्, अविचलितरूपत्वात् परैरनाधेयातिशयत्वाञ्च, विचलितत्वे आधेयातिशयत्वे च क्षणिकतापत्तिः । अन्यञ्च, तत्सामान्य व्यक्तिभ्यो भिन्नमभिन्न भिन्नाभिन्नं वा हेतुर्भवेत् ? न तावद्भिनं व्यक्तिभ्यः पृथगनुपलम्भात् । समवायेन व्यक्तिभिः सह सामान्यस्य संबन्धितत्वात् पृथगनुपलम्भ इति चेत् ? न, समवायस्येह बुद्धिहेतुत्वं गीयते, इहेदमिति बुद्धिश्च भेदग्रहणमन्तरेण न भवेत् । किं च, अतोऽश्वत्वादिसामान्यं स्वाश्रयसर्वगतं वा सर्वसर्वगतं वेष्यते ? यदि स्वाश्रयसर्वगतं, तदा कर्कादिव्यक्तिशून्ये देशे प्रथमतरमुपजायमानाया व्यक्तेरश्वत्वादिसामान्येन योगो न भवति, व्यक्तिशून्ये देशे सामान्यस्यानवस्थानाद्व्यकत्यन्तरादनागमनाञ्च । अथ सर्वसर्वगतं तत्स्वीक्रियते, तदा कर्कादिभिरिव शाबलेयादिभिरपि तदभिव्यज्यते । न च कर्काद्यानामेव तदभिव्यक्ती सामर्थ्यं न शाबलेयादीनामिति वाच्यं, यतः किंरूपं तत्कळद्यानां सामर्थ्यम् ? साधारणरूपत्वमिति चेत् ? न, स्वतश्चेत्साधारणरूपा व्यक्तयः, तदा स्वत एव ता अश्वोऽश्व इत्यनुवृत्तं प्रत्ययं जनयिष्यन्तीति किं तद्भिन्नसामान्यपरिकल्पनया । यदि च स्वतोऽसाधारणरूपा व्यक्तयः, तदापरसामान्ययोगादपि न साधारणा भवेयुः, स्वतोऽसाधारणरूपत्वात्, इति व्यक्तिभिन्नस्य सामान्यस्याभावादसिद्धस्तल्लक्षणो हेतुः । कथं ततः साध्यसिद्धिर्भवेत् । अथ व्यक्त्यभिन्नं सामान्य हेतुः, तदप्ययुक्तं, व्यक्त्यभिन्नस्य व्यक्तिस्वरूपवद्व्यकयन्तराननुगमात्सामान्यरूपतानुपपत्तेर्व्यक्त्यभिन्नत्वस्य सामान्यरूपतायाश्च मिथोविरोधात् । अथ भिन्नाभिन्नमिति चेत् ? न, विरोधात् । अथ केनाप्यंशेन भिन्नं केनाप्यभिन्नमिति । तदपि न युक्तं, सामान्यस्य निरंशत्वात् । तन्न एकान्तसामान्यरूपो हेतुः साकल्येन सिद्धो, नापि विशेषरूपः, तस्यासाधारणत्वेन गमकत्वायोगात्, साधारणत्व एवान्वयोपपत्तेः । नापि सामान्यविशेषोभयं परस्पराननुविद्धं हेतुः उभयदोषप्रसङ्गात् । नाप्यनुभयं, अन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयविधानादनुभयस्यासत्त्वेन हेतुत्वायोगात् । बुद्धिप्रकल्पितं च सामान्यमवस्तुरूपत्वात्साध्येनाप्रतिबद्धत्वादसिद्धत्वाञ्च न हेतुः । तदेवं सामान्यादीनामसिद्धत्वे तल्लक्षणाः सर्वेऽपि हेतवोऽसिद्धा एव २ । व्याख्या का भावानुवाद : (सामान्य नित्य तथा एकरुप माना जाता है।) इसलिए वह सामान्य अपने आधारभूत व्यक्ति का इन्द्रिय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy