________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन
स्तादृशासदृश - 'चतुस्त्रिंशदतिशयसनाथपरमैश्वर्यसमन्वितः स्वामी जिनेन्द्रो देवता-देवः कृत्स्नकर्मक्षयं कृत्वा परमं पदं संप्राप्त इति संबन्धः । कीदृशः स इत्याह-‘रागद्वेषविवर्जितः’ मायालोभौ रागः, क्रोधमानौ द्वेषः, रागद्वेषाभ्यां विशेषेण पुनः पुनर्भावेन वर्जितो- रहितो रागद्वेषविवर्जितो वीतराग इत्यर्थः । रागद्वेषौ हि दुर्जयौ दुरन्तभवसंपातहेतुतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ E-7 यदाह - " अको दुःखं पाविज्झा कस्स य सुक्खेहि विम्हओ हुज्जा । को य न लभिज्जा मुक्खं रागद्दोसा जइ न हुज्जा ।।१।।” इति ।। ततस्तयोर्विच्छेद उक्तः तथा 'हतमोहमहामल्लः ' । मोहनीयकर्मोदयाद्धिसाद्यात्मकशास्त्रेभ्योऽपि मुक्तिकांक्षणादिव्यामोहो मोहः, स एव सकलजगद्दुर्जयत्वेन महामल्ल इव महामल्लः, हतो मोहमहामल्लो येन स तथा । एतेन विशेषणद्वयेन देवस्यापायापगमातिशयो व्यञ्जितो द्रष्टव्यः, तथा रागद्वेषमहामोहरहितोऽर्हन्नेव देव इति ज्ञापितं च । यदुक्तम् - " रागोऽङ्गनासङ्गमतोऽनुमेयो द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ।।१।।” इति ।। तथा केवले - अन्यज्ञानानपेक्षत्वेनासहाये संपूर्णे वा ज्ञानदर्शने यस्य स तथा, केवलज्ञानकेवलदर्शनात्मको हि भगवान्, करतलकलितामलकफलवद्द्रव्यपर्यायात्मकं निखिलमनवरतं जगत्स्वरूपं जानाति पश्यति चेति । केवलज्ञानदर्शन इति पदं साभिप्रायम्, छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते ततो ज्ञानं, केवलिनस्त्वादी ज्ञानं ततो दर्शनमिति । तत्र सामान्यविशेषात्मके सर्वस्मिन्प्रमेये वस्तुनि सामान्यस्योपसर्जनीभावेन विशेषाणां च प्रधानभावेन यद्ग्राहकं तज्ज्ञानम्, विशेषाणामुपसर्जनीभावेन सामान्यस्य च प्राधान्येन यद्ग्राहकं तद्दर्शनम्, एतेन विशेषणेन ज्ञानातिशयः साक्षादुक्तोऽवगन्तव्यः ।
४/६२७
व्याख्या का भावानुवाद :
जैनमत में जिनेन्द्र अर्थात् जिन-सामान्यकेवलि, वे सामान्यकेवलियों के इन्द्र श्री जिनेन्द्र भगवान देवता है । सामान्यकेवलि में जो देखने को नहि मिलता, ऐसे चौत्तीस अतिशयो से सनाथ और परमैश्वर्य से युक्त श्रीजिनेन्द्र भगवान है। वे देव सभी कर्मो का क्षय करके परमपद को प्राप्त हुए है। इस प्रकार से अंत में संबंध करना । वे श्री जिनेश्वर भगवान किस प्रकार के है ?
उत्तर : राग-द्वेष से रहित है । अर्थात् कषाय से रहित है। माया और लोभकषाय को राग कहा जाता है। क्रोध और मानकषाय को द्वेष कहा जाता है। इस राग-द्वेष से (पुनः प्राप्त न हो इस प्रकार से ) रहित है। अर्थात् राग-द्वेष से वर्जित वीतराग है। शास्त्र में राग-द्वेष को दुर्जय तथा दुरन्त संसारपरिभ्रमण के कारण (अ) कः दुःखं प्राप्नुयात् कस्य च सुखैः विस्मयो भवेत् । कष्टा न लभेत् मोक्षं रागद्वेषौ यदि न भवेताम् ।।
(E-6-7) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org