________________
१८८ / ८११
षड्दर्शन समुच्चय भाग - २, श्लोक ५५, जैनदर्शन
होनेवाला एकत्व सादृश्य विलक्षणता आपेक्षिक आदि रुप से जितने भी संकलन ज्ञान होते है, उनका प्रत्यभिज्ञा में समावेश होता है ।
F-57अर्थापत्तिरपि-“प्रमाणपट्कविज्ञातो यत्रार्थोऽनन्यथा भवन् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ।।१।। ” इत्येवं लक्षणानुमानान्तर्गतैव - 58, अर्थापत्त्युत्थापकस्यार्थस्यान्यथानुपपत्तिनिश्चयेनैवादृष्टार्थपरिकल्पनात्, अन्यथानुपपत्तिनिश्चयस्यानुमानत्वात् । अभावाख्यं तु प्रमाणं प्रमाणपञ्चकाभावः १ तदन्यज्ञानं २ आत्मा वा ज्ञानविनिर्मुक्तः ३ इति F-59त्रिधाभिधीयते, तत्राद्यपक्षस्यासम्भव एव प्रसह्यवृत्त्या प्रमाणपञ्चकाभावस्य तुच्छत्वेनावस्तुत्वात्, अभावज्ञानजनकत्वायोगात्, द्वितीयपक्षे तु पर्युदासवृत्त्या यत्तदन्यज्ज्ञानं F-60 तत्प्रत्यक्षमेव, प्रत्यक्षेणैव घटादिविविक्तस्य भूतलादेर्ग्रहणात् । क्वचित्तु तदघटं भूतलमिति प्रत्यभिज्ञानेन, योऽग्निमान्न भवति नासौ धूमवानिति तर्केण, नात्र धूमोऽनाग्नेरित्यनुमानेन - 1, गृहे गर्यो नास्तीत्यागमेन वाऽभावप्रतीतेः क्वाभावः प्रमाणं प्रवर्तताम् । तृतीयपक्षस्य पुनरसम्भव एव, आत्मनो ज्ञानाभावे कथं वस्त्वभाववेदकत्वं वेदनस्य ज्ञानधर्मत्वात्, अभाववेदकत्वे वा ज्ञानविनिर्मुक्तत्वस्याभावात्, तन्नाभावः प्रमाणान्तरम् 1 F-2 सम्भवोऽपि समुदायेन समुदायिनोऽवगम इत्येवंलक्षणः सम्भवति खार्यां द्वोण इत्यादिको नानुमानात्पृथक्, तथाहि खारी द्रोणवती, खारीत्वात्पूर्वोपलब्धखारीवत् । F-63 ऐतिह्यं त्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम्, एवमूचुर्वृद्धा यथा “इह वटे यक्षः प्रतिवसति" इति, तदप्रमाणं, अनिर्दिष्टवक्तृकत्वेन सांशयिकत्वात्, आप्तप्रवक्तृकत्वनिश्चये त्वागम इति I यदपि F-प्रातिभ -मक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेव “ अद्य मे महीपतिप्रसादो भविता" इत्याकारं स्पष्टतया वेदनमुदयते तदप्यनिन्द्रियनिबन्धनतया F-6 मानसमितिप्रत्यक्षकुक्षिनिक्षिप्तमेव 1 यत्पुनः प्रियाप्रियप्राप्तिप्रभृतिफलेन सार्धं गृहीतान्यथानुपपत्तिकात्मनः प्रासादोद्वेगादेर्लिङ्गादुदेतितत्पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टमनुमानमेव 1 एवं युक्त्यनुपलब्ध्योरादिशब्दाद्विशिष्टोपलब्धिजनकस्य बोधाबोधरूपविशेषत्यागेन सामान्यतो लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्” [याज्ञवं० स्मृ० २ / २२ ] इत्युक्तस्य प्रमाणस्यान्येषां च केषाञ्चित्प्रमाणान्तरत्वेन परपरिकल्पितानां यथालक्षणं प्रत्यक्षपरोक्षयोरन्तर्भावो निराकरणं च विधेयम् । तदेवं न प्रत्यक्षपरोक्षलक्षणद्वैविध्यातिक्रमं शक्रोऽपि कर्तुं क्षमः ।।
,
Jain Education International
-
व्याख्या का भावानुवाद :
"प्रत्यक्षादि छः प्रमाणो में से कोई भी प्रमाण से ज्ञातपदार्थ दूसरी तरह से संगत होता न
(F-57-58-59-60-61-62-63-64-65 ) - तु० पा० प्र० प० ।
For Personal & Private Use Only
www.jainelibrary.org