________________
षड्दर्शन समुञ्चय भाग - २, श्लोक - ५२, जैनदर्शन
१७५/७९८
पक्षिणस्तृतीयां यावत्, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, अतो न सप्तमपृथ्वीगमनायोग्यत्वेन विशिष्टसामर्थ्यासत्त्वम् । नापि वादादिलब्धिरहितत्वेन,F-43 मूककेवलिभिर्व्यभिचारात्'-44 । तथाल्पश्रुतत्वेनेति पक्षस्त्वनुद्घोष्य एव, मुक्त्यवाप्त्यानुमितविशिष्टसामर्थ्यउषतुषादिभिरनेकान्तिकत्वात्, तन्न विशिष्टसामर्थ्यासत्त्वं स्त्रीणां घटते २ । नापि'-45 पुरुषानभिवन्द्यत्वेन स्त्रीणां हीनत्वं, यतस्तदपि किं सामान्येन १ गुणाधिकपुरुषापेक्षया २ वा ? आद्योऽसिद्धः, तीर्थङ्करजनन्यादयो हि शर्करपि पूज्यन्ते किमङ्ग शेषपुरुषैः । द्वितीयश्चेत्, तदा गणधरा अपि तीर्थङ्करैर्नाभिवन्द्यन्त इति तेषामपि हीनत्वान्मोक्षो न स्यात् । तथा चतुर्वर्णस्य सङ्घस्य तीर्थङ्करैर्वन्द्यत्वात्सङ्घान्तर्गतत्वेन संयतीनामपि तीर्थंकरवन्द्यत्वाभ्युपगमात्कथं स्त्रीणां हीनत्वम्-46 ३ ? F-47अथ स्मारणाद्यकर्तृत्वेनेति पक्षः, तदाचार्याणामेव मुक्तिः स्यान्न शिष्याणां, तेषां स्मारणाद्यकर्तृत्वात् ४ । अथामहर्टिकत्वेनेति पक्षः, सोऽपि न दक्षः, यतो दरिद्राणामपि केषाञ्चिन्मुक्तिः श्रूयते केषाञ्चिन्महर्टिकाणामपि चक्रवर्त्यादीनां तदभावः ५ । अथ मायादिप्रकर्षकत्वेनेति, तदपि न युक्तं, नारददृढप्रहारिभिर्व्यभिचारात, तन्न हीनत्वं कथमपि स्त्रीणां जाघटीतीति हीनत्वादित्यसिद्धो हेतुः ६ । ततश्चाविगानेन पुरुषाणामिव योषितामपि निर्वाणं प्रतिपत्तव्यम् । प्रयोगश्चात्र-अस्ति'-48 स्त्रीणां मुक्तिः अविकलकारणवत्त्वात्, पुंवत्, तत्कारणानि सम्यग्दर्शनादीनि स्त्रीषु संपूर्णान्युपलभ्यन्ते । ततो भवत्येव स्त्रीणां मोक्ष इति स्थितं मोक्षतत्त्वम् । एतेन “ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वागच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।१।।" इति परपरिकल्पितं पराकृतम् ।।५२ ।।
व्याख्या का भावानुवाद : जिनमें अधोगमन की शक्ति स्तोक (अल्प) है। उनमें उर्ध्वगमन की शक्ति भी स्तोक (अल्प) ही होती है, वैसा नहीं है। क्योंकि भुजपरिसर्पादि के साथ व्यभिचार आता है। वह इस अनुसार से है
भुजपरिसर्पजीव नीचे दूसरी ही नरक पृथ्वी तक जाते है, उससे अधिक नहीं। पक्षी यावत् तीसरी नरक तक, चतुष्पद चौथी नरक तक, सांप पांचवी नरक तक जाता है। वे भुजपरिसर्प, पक्षी, चतुष्पद और सांप सभी उंचे उत्कृष्ट से सहस्रार विमान (आठवें देवलोक) तक जाते है। (अर्थात् भुजपरिसर्पादि में अधोगति में जाने योग्य शक्ति का तारतम्य होने पर भी उर्ध्वगति में जाने योग्य शक्ति की समानता है। इसलिए जिन की अधोगमन की शक्ति स्तोक (अल्प) हो, उसकी उर्ध्वगमन की शक्ति भी स्तोक हो, वैसा नियम नहीं है।) इसलिए स्त्रीयों में सातवीं नरक पृथ्वी में जाने की अयोग्यता होने के कारण विशिष्ट सामर्थ्य का अभाव
(F-43-44-45-46-47-48)- तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org