________________
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाभ्रविकारः । यः स्वदेहस्य कर्त्ता स जीवः । प्रतिनियता - कारत्वं मेर्वादीनामप्यस्ति, नच तेषां कश्चिद्विधातेति तैरनैकान्तिको हेतुः स्यात्, अतस्तद्व्यवच्छेदार्थ- मादिमत्त्वविशेषणं द्रष्टव्यम् ३ । तथेन्द्रियाणामस्त्यधिष्ठाता, करणत्वात्, यथा दण्डचक्रादीनां कुलाल: ४ । विद्यमानभोक्तृकं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोक्ता स जीवः ५ । अथ साध्यविरुद्धसाधकत्वाद्विरुद्धा एवैते हेतवः । तथाहि-घटादीनां कर्त्रादिरूपाः कुम्भकारादयो मूर्त्ता अनित्यादिस्वभावाश्च दृष्टा इति । अतो जीवाऽप्येवंविध एव सिध्यति । एतद्विपरीतश्च जीव इष्ट इति । अतः साध्यविरुद्धसाधकत्वाद्विरुद्धत्वं हेतूनामिति चेत् ? न, यतः खलु संसारिणो जीवस्याष्टकर्म-पुष्टलवेष्टितत्वेन सशरीरत्वात् कथंचिन्मूर्त्तत्वान्नायं दोषः । तथा E-90 रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् ६ । तथा "ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् ७ । न च शरीरे तदाश्रितत्वस्य तदुपादानत्वस्य चेष्टत्वात्सिद्धसाधनमित्यभिधातव्यं तत्र तदाश्रि - तत्वतदुपादानत्वयोः प्राक् प्रतिव्यूढत्वात् । तथा प्रतिपक्षवानयमजीवशब्दः, व्युत्पत्तिमद्शुद्धपदप्रतिषेधात् 92 । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् । यथाऽघटो घटप्रतिपक्षवान् । अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च घटस्य (पदस्य ) प्रतिषेधः । अतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न प्रतिपक्षवान्, न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधः यथाऽखरविषाणशब्द अडित्थ इति वा 1 अखरविषाणमित्यत्र खरविषाणलक्षणस्याशुद्धस्य सामासिकस्य पदस्य निषेधः । व्युत्पत्तिमत्त्वे सत्यपि शुद्धपदत्वाभावाद्विपक्षो नास्ति । अडित्थ इत्यत्र तु व्युत्पत्तिमत्त्वाभावात् सत्यपि शुद्धपदत्वे नावश्यं डित्थलक्षणः कश्चित्पदार्थो जीववद्विपक्षभूतोऽस्तीति ८ ।
अत्र
व्याख्या का भावानुवाद :
आत्मा अनुमानगम्य भी है । अर्थात् निम्नोक्त अनुमानो से आत्मा का अस्तित्व सिद्ध होता है । (१) जिंदा शरीर प्रयत्नवान् से अधिष्ठित है । ( अर्थात् जीवित शरीर कोई प्रयत्न करनेवाले के द्वारा परिचालित होता है ।) क्योंकि इच्छानुसार क्रिया करता है । जैसे रथ सारथि की इच्छानुसार चलता है, तो रथका सारथि कोई-न-कोई अवश्य होता है । वैसे शरीर भी व्यवस्थित रुप से इच्छानुकूल प्रवृत्ति करता है । चलनेवाला चलने की इच्छा करे तो चलने की प्रवृत्ति करता है । इसलिए सिद्ध होता है कि शरीर को चलानेवाला कोई-न-कोई होना चाहिए और वही आत्मा है
I
(२) श्रोत्रेन्द्रिय इत्यादि उपलब्धि के साधन कर्ता से प्रयोज्य है । क्योंकि करण है । जैसे
(E-90-91-92) - तु० पा० प्र० प० ।
७९/७०२
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org