________________
५६४
षड्दर्शन समुच्चय भाग -१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
(२१) सांख्यदर्शने अमूर्तश्चनो भोगी नित्यः सर्वगतोऽक्रिय: अकर्ता निर्गुणः सूक्ष्म आत्मा ।
(२२) प्रधाननरयोश्चात्र (प्रकृतिपुरुषयोश्चात्र) वृत्ति: पंग्वन्धयोरिव । पङ्गुकल्पः शुद्धचैतन्यस्वरुपः पुरुषोऽप्यन्धकल्पां जडां प्रकृति सक्रियमाश्रितो बुद्धयध्यवसितं शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहान्मन्यमानः संसारमधिवसति ।
(२३) अन्तरज्ञानात् (विवेकज्ञानात्) पुरुषस्य यः प्रकृतेर्वियोगो भवति, स मोक्ष: । विवेकदर्शनेन उपरतायां प्रकृतौ पुरुषस्य स्वरुपेणावस्थानं मोक्षः ।
(२४) मोक्षोबन्धविच्छेदाद् भवति । बन्धश्च प्राकृतिक वैकारिक- दाक्षिणभेदात्त्रिविधः । तत्र प्रकृतावात्मज्ञानात् ये प्रकृतिमुपासते, तेषां प्राकृतिको बन्ध: । ये विकारानेव भूतेन्द्रियाहंकारबुद्धी: पुरुषबुद्ध्योपासते, तेषां वैकारिकः । इष्टापूर्तेदाक्षिण पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यते ।
(२५) बन्धात्प्रेत्यसंसरणरुपः संसारः प्रवर्तते ।
(२६) सांख्यमते प्रकृतिविकृत्यनात्मकस्य पुरुषस्य न बन्धमोक्षसंसाराः, किन्तु प्रकृतेरेव । तथापि विवेकाग्रहात् प्रकृतिगतयोरपि संसारमोक्षयोः पुरुषे उपचर्यन्ते ।
(२७) सांख्यमते प्रमाणत्रितयम् । तथाहि - प्रत्यक्षं लैङ्गिकं, शाब्दम् ।
(२८) अर्थोपलब्धिहेतुः प्रमाणम् ।
(२९) श्रोत्रादिवृत्तिरविकल्पका प्रत्यक्षं । तेषां मते इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षम् । (३०) लिङ्गलिङ्गिपूर्वकं ज्ञानं अनुमानम् । पूर्ववच्छेषवत्सामान्यतोदृष्टं चेति त्रिविधमनुमानम् ।
(३१) शाब्दं आप्त श्रुतिवचनम् ।
(३२) प्रकृतिविकारस्वरुपं कर्म । प्रधानं त्रैगुण्यरूपं सामान्यम् । प्रमाणविषयस्तात्त्विकः कारणे कार्यं सदेवोत्पद्यतेऽसदकारणादिभ्यो हेतुभ्यः द्रव्याण्येव केवलानि सन्ति, न पुनरुत्पत्तिांवपत्तिधर्माणपर्यायाः केऽपि, आविर्भावतिरोभावमात्रत्वात्तेषाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org