________________
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
५६३
(३) आध्यात्मिकं द्विविधं, शारीरं मानसं च तत्र वातपित्तश्लेष्मणां वैषम्यनिमित्तं यदुःखमात्मानं देहमधिकृत्य ज्वरातीसारादि समुत्पद्यते तच्छारीरम् । मानसं च कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धम् ।
(४) आधिभौतिकं मानुषपशुपक्षिमुगसरीसृपस्थावरनिमित्तं, आधिदैविकं यक्षराक्षसग्रहा-द्यावेशहेतुकम् ।
(५) सत्त्वादिगुणत्रयं क्रमेण प्रसादतापदैन्यादिकार्यलिङ्गम् । सत्त्वं सुखलक्षणं, रजो दुःखलक्षणं तमश्च मोहलक्षणम्।
(६) प्रसादबुद्धिपाटवलाघवप्रसवानभिष्वङ्गाद्वेषप्रीत्यादयः कार्यं सत्त्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्यं रजसो लिङ्गम् । दैन्यमोहमरणसादनबीभत्साज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् ।
(७) सत्त्वादिगुणानां या साम्यावस्था सा प्रकृतिरुच्यते । सा नित्यस्वरुपिका प्रधानाऽव्यक्त शब्दाभ्यां वाच्या। (८) नित्यं अप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं स्वरुपम् ।
(९) मौलिक्यसांख्या आत्मानमात्मनं प्रति पृथक् पृथक् प्रधानं वदन्ति, उत्तरे तु सांख्याः सर्वात्मस्वप्येकं नित्यं प्रधानमिति प्रपन्नाः ॥
(१०) प्रकृत्यात्मसंयोगात्सृष्टिर्जायते ।
(११) प्रकृतेर्बुद्धिः संजायते । बुद्धेरप्यहंकार उत्पद्यते । अहंकारात्षोडशको गण उत्पद्यते । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च रुपादितन्मात्राणि, मनश्च इति षोडशको गणः ।
(१२) बुद्धः अष्टौ रूपाणि । धर्म ज्ञान वैराग्य एश्वर्यरूपाणि चत्वारि सात्त्विकानि, तत्प्रतिपक्षभूतानि अधर्मादीनि चत्वारि तामसानीति ।
(१३) पञ्चतन्मात्रेभ्यः पञ्चभूतान्युत्पद्यन्ते । रूपात्तेजो रसादापो गन्धाद्भूमिः स्वरान्नभः स्पर्शाद्वायुश्च उत्पद्यते ।
(१४) रुपतन्मात्रं शुक्लकृष्णादिरूपविशेषः । रसतन्मात्रं तिक्तादिरसविशेषः । गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः । शब्दतन्मात्रं मधुरादिशब्दविशेषः स्पर्शतन्मात्रं मृदुकठिनादिस्पर्शविशेषः।।
(१५) प्रकृतिर्नविकारः, अनुत्पन्नत्वात् । बुद्ध्यादयश्च सप्त परेषां कारणतया प्रकृतयः, कार्यतया च विकृतयः उच्यन्ते षोडशकश्च गणो विकृतेरव कार्यत्वात् । पुरुषस्तु न प्रकृतिर्न विकृतिः अनुत्पादकत्वादनुत्पन्नत्वाच्च ।
(१६) सांख्यमते पुरुषस्तु अकर्ता, विगुणः, भोक्ता, नित्यचेतनश्च । __ (१७) महादादयः प्रकृतेर्विकारास्ते च व्यक्ताव्यक्ता भवन्ति । व्यक्तं हेतुमद् अनित्यं, अव्यापि, सक्रियं, अनेकं, आश्रितं, लिङ्ग, सावयवं, परतन्त्रम्, अव्यक्तं पुनः विपरीतम् ।
(१८) सांख्यमते प्रकृतिरेव की, तस्याः प्रवृत्तिस्वभावत्वात् । पुरुषस्तु अकर्ता, आत्मनस्तृणमात्रकुब्जीकरणेऽप्यसमर्थत्वात् ।
(१९) सांख्यमते पुरुषस्य चैतन्यमेव स्वरूपं न तु ज्ञानं, ज्ञानस्य बुद्धिधर्मत्वात् ।
(२०) सांख्यमते आत्मानेकोऽभ्युपगन्तव्याः जन्ममरणकरणानां नियमदर्शनाद् धर्मादि प्रवृत्तिनानात्वाच्च । ते च सर्वेऽप्यात्मानः सर्वगता नित्याश्चवसेयाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org