________________
५६२
षड्दर्शन समुच्चय भाग-१, परिशिष्ट-६, पारिभाषिकशब्दानुक्रमणी
(५१) येन केनचित्प्रतिज्ञाहान्याधुपरोधेन विपक्षो निगृह्यते, तन्निग्रहस्थानम् । निग्रहस्थानं च सामान्यतो द्विविधं, विप्रतिपत्तिरप्रतिपतिश्च । (५२) तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिः दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्तु साधनस्यादूषणं चानुद्धरणम् । (५३) द्विधा हि वादी पराजीयते । यथा कर्तव्यमप्रतिपाद्यमानो विपरीतं वा प्रतिपद्यमान इति विप्रतिपत्त्यप्रतिपत्तिभेदाच्च द्वाविंशतिर्निग्रहस्थानानि भवन्ति । (१) हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् भवति । (२) प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानम् भवति । (३) प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधो नाम निग्रहस्थानम् भवति । (४) पक्षसाधने परेण दूषिते तदुद्धारणाशक्त्या प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानम् भवति । (५) अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानम् । (६) प्रकृतादर्थादन्योऽर्थोऽर्थान्तरं तदनौपायिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानम् । (७) अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानम् । (८) परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थं नाम निग्रहस्थानम्। (९) पूर्वापरासंगतपदसमूहप्रयोगादप्रतिष्ठित वाक्यार्थमपार्थकं नाम निग्रहस्थानम्।
(१०) प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लंध्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानम् । (११) पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन हीनं प्रयुञ्जानस्य न्यूनं नाम निग्रहस्थानम् । (१२) एकेनैव हेतुनोदाहरणेन वा प्रतिपादितेऽर्थे हेत्वन्तरमुदाहरणान्तरं वा वदतोऽधिकं नाम निग्रहस्थानम् । (१३) शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानम् । (१४) पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि पदप्रत्युच्चारणं, तदननुभाषणं नाम निग्रहस्थानम्। (१५) पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं, तदज्ञानं नाम निग्रहस्थानम् । (१६) परपक्षे गृहीतेऽप्यनुभाषितेऽपि तस्मिन्नुत्तराप्रतिपतिरप्रतिभा नामं निग्रहस्थानम् । (१७) कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपो नाम निग्रहस्थानं भवति । (१८) स्वपक्षे परापादितदोषमनुद्धृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुज्ञा नाम निग्रहस्थानम् । (१९) निग्रहप्राप्तस्यनिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानम् । (२०) अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगो नाम निग्रहस्थानम् । (२१) सिद्धान्तमभ्युपेत्या-नियमात्कथाप्रसङ्गोऽपसिद्धान्तो नाम निग्रहस्थानम् । (२२) हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् । (२३) अत्रापि - अननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः शेषाश्च विप्रतिपत्तिभेदाः ।
(५४) न्यायमते - १. अर्थोपलब्धिहेतुः प्रमाणम् । २. एकात्मसमवायिज्ञानान्तरवेद्यं ज्ञानं प्रमाणाद्भिन्नं फलम्, ३. स्मृत्तेरप्रामाण्यम्, ४. परस्परविभक्तौ सामान्यविशेषौ नित्यानित्यत्वे सदसदंशौ च । ५. प्रमाणस्य विषयः पारमार्थिकः, ६. तमश्छाये अद्रव्ये, ७. आकाशगुणः शब्दोऽपौगलिकः, ८. संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपादनसामर्थ्यात् । ९. धर्मधर्मिणोर्भेदः, १०. सामान्यमनेकवृत्तिः, ११. आत्मविशेषगुणलक्षणं कर्म। १२. वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेदा-दात्मसंस्थानं मुक्तिः ।
श्लोक-३३ से ४४ (सांख्यदर्शनम् ) (१) सांख्याः केचिनिरीश्वराः केचिदीश्वरदेवताः । तेषां मते तत्त्वानां पञ्चविंशतिः । (२) आध्यात्मिकमाधिदैविकमाधिभौतिकं दुःखत्रयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org