SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - १, श्लोक - ४३, सांख्यदर्शन ( उत्तरं ) तु फलमिति । तथा कारणे कार्यं सदेवोत्पद्यतेऽसदकारणादिभ्यो हेतुभ्यः । तदुक्तम् (सांख्यकारिका ९ ) -“असदका (क) रणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।।१।।” इति ।। अत्र सर्वसंभवाभावादिति, यद्यसत्कार्य स्यात्तदा सर्वं सर्वत्र भवेत् । ततश्च तृणादिभ्योऽपि सुवर्णादीनि भवेयुः, न च भवन्ति, तस्मात्कारणे कार्यं सदेव । तथा द्रव्याण्येव केवलानि सन्ति, न पुनरुत्पत्तिविपत्तिधर्माणः पर्यायाः केऽपि, आविर्भावतिरोभावमात्रत्वात्तेषामिति । सांख्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं, माठरभाष्यं, सांख्यसप्ततिनामकं, तत्त्वकौमुदी, गौडपादं, आत्रेयतन्त्रं चेत्यादयः ।। ४३ ।। २६० टीकाका भावानुवाद : मूल में न कहे हुए सांख्यदर्शन के कुछ विशेष तत्त्वो को कहा जाता है - चैतन्यशक्ति शब्दादि विषयो का परिच्छेद नहीं करती है। अर्थात् अर्थ को जानती नहीं है । (परन्तु पदार्थो को जाननेवाली बुद्धि है।) वह बुद्धि है और संवेदन कर सकती नहीं है। चैतन्यशक्ति और बुद्धि के सन्निधान से दोनो का स्वभाव विपरीत हो जाता है। अर्थात् चैतन्यशक्ति विषयो का परिच्छेद करती हो जाती है-अर्थ को जानती हो जाती है। तथा जड जैसी बुद्धि चेतनावान् बन जाती है। प्रकृति और पुरुष के संयोग से ही सृष्टि का सर्जन होता है। पुण्य-पाप कर्मप्रकृति के विकार स्वरुप है तथा तीन गुणवाला प्रधान सामान्य है । अर्थात् सर्वत्र अनुगत है । प्रमाण के विषयभूत बाह्यार्थ तात्त्विक (वास्तविक) है, काल्पनिक नहीं है । यहाँ तीन गुण, सत्त्व, रजस् और तमस् है । स्वार्थ में "ण्योनन्दादे" सूत्र से "ण्य” लगकर त्रिगुण का बना हुआ है। जैसे कि, तीन लोक को त्रैलोक्य और षड्गुण ही षाड्गुण्य कहा जाता है। वैसे त्रैगुण्य अ " इह लोके सदेव सद्भवति । असतः का (क) रणं नास्ति । यदि स्यात्तदा सिकताभ्यस्तैलं, कूर्मरोमभ्यः पटप्रावरणम्, वन्ध्यादुहितृभूविलासः, शशविषाणं, खपुष्पं च स्यात् । न चास्ति तस्मादनुमीयते प्रधाने प्रागुत्पत्तेर्महदादिकमस्त्येव । उपादानग्रहणात् । इह लोके यो येनार्थी स तदुपादानग्रहणं करोति । तन्निमित्तमुपादत्ते । तद्यथा दध्यर्थी क्षीरस्योपादानं कुरुते । यदि चासत्कार्यं स्यात्तदा दध्यर्थी उदकस्याप्युपादानं कुर्यात्, न च कुरुते तस्मात् महदादि कार्यमस्तीति । किंव सर्वसम्भवाभावात् । इह लोके यद् यस्मिन् विद्यते तस्मादेव तदुत्पद्यते । यथा तिलेभ्यस्तैलं दध्नो घृतम् । यदि चासत्कार्य स्यात्तदा सर्वं सर्वतः सम्भवेत्ततश्च तृणपांशुवालुकादिभ्यो रजतसुवर्णमणिमुक्ताप्रवालादयो जायेरन् । न च जायन्ते तस्मात्पश्यामः सर्वसम्भवाभावादपि महदादि कार्यं प्रधाने सदेव सद्भवतीति । अतश्चास्ति शक्तस्य शक्यकरणात् । इह लोके शक्तः शिल्पी करणादि - कारणोपादानकालोपायसंपन्नः शक्यादेव शक्यं कर्म आरभते नाशक्यमशक्यात् । तद्यथा शक्तः कुम्भकारः शक्यादेव मृत्पिण्डात् शक्यदण्डचक्रसूत्रोदकविदलतलादिभिः संपन्नो घटशरावोदञ्चनादीन्यारभमाणो दृष्टः । न च मणिकादि, अशक्यत्वात्तावता पिण्डेन तस्य । यदि पुनः करणनियमो न स्यात् । इह लोके यल्लक्षणं कारणं तल्लक्षणं कार्यं स्यात् । यथा कोद्रवेभ्यः कोद्रवाः, व्रीहिभ्यो व्रीहयः स्युः । यदि चासत्कार्यं स्यात् तदा कोद्रवेभ्यः शालीनामपि निष्पत्तिः स्यात् । न च भवति । तस्मात्कारणभावादपि पश्यामः प्रधाने महादादि कार्यमस्तीति । साधितमेवमेतैः पञ्चभिर्हेतुभिः सत् कार्यम् ।।" - सांख्यका० मा०वृ० ९ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004073
Book TitleShaddarshan Samucchaya Part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy