________________
२०८
षड्दर्शन समुच्चय भाग - १, श्लोक - ३१,
|
है । जैसे कि, जिस प्रकार का शब्द (साध्य) का धर्म कृतकत्वादि है । उस प्रकार का घट (दृष्टांत) का धर्म नहीं है । और जिस प्रकार का घटधर्म है। उस प्रकार का शब्दधर्म नहीं है । साध्यधर्म और दृष्टांतधर्म समान करने चाहिए, परन्तु यहाँ विपर्यास है । क्योंकि जिस प्रकार का घटधर्म कृतकत्वादि है, ऐसे प्रकार का शब्दधर्म नहीं है। वह इस प्रकार से घट का कृतकत्व कुम्भकारादि से जन्य अन्य प्रकार का है और शब्द का कृतकत्व तालु, ओष्ठादि के व्यापार से जन्य अन्य प्रकार का है 1
नैयायिक दर्शन
धर्मान्तरविकल्पेन प्रत्यवस्थानं (अ) विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं तूलशय्यादि, किंचित्तु कठिनं कुठारादि, एवं कृतकं किंचिदनित्यं भविष्यति घटादिकं, किंचिच्च नित्यं शब्दादीति ७ । साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा C-54 जातिः । यदि यथा घटस्तथा शब्दः प्राप्तः, तर्हि यथा शब्दस्तथा घट इति शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरां न दृष्टान्त इति । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती—-55 । यदेतत्कृतकत्वं साधनमुपन्यस्तं तत्किं प्राप्य साध्यं साधयत्यप्राप्य वा । प्राप्य चेत्, तर्हि द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति । द्वयोश्च सत्त्वात्किं कस्य साध्यं साधनं वा । अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति ९-१० । प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा C-56 जातिः । यद्यनित्यत्वे कृतकत्वं साधनं, तदा कृतकत्वे किं साधनं, तत्साधनेऽपि किं साधनमिति ११ । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा C-57 जातिः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्, घटवदित्युक्ते जातिवाद्याह । यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्टः, एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं, कूपखननप्रयत्नानन्तरं तदुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भंग्यन्तरेण प्रत्यवस्थानात् १२ । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमाC-58 जातिः । अनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क्व वर्तते । तदेवं हेत्वाभावादसिद्धिरनित्यत्वस्येति १३ । साधर्म्यसमा वैधर्म्यसमा वा या जाति : पूर्वमुदाहारि सैव संशयेनोपसंह्रियमाणा संशयसमा C-59 जातिर्भवति । किं घटसाधर्म्यात्कृतकत्वादनित्यः शब्द उत तद्वैधर्म्यादाकाशसाधर्म्यादमूर्तत्वान्नित्य इति १४ । द्वितीयपक्षोत्थापनबुद्ध्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा च जातिः प्रकरणसमाC-60 भवति । तत्रैवानित्यः शब्दः कृतकत्वाद्धटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । उद्भावनप्रकारभेदमात्रेण च जातिनानात्वं द्रष्टव्यम् १५ ।
Jain Education International
टीकाका भावानुवाद :
(७) विकल्पसमा जाति : धर्मान्तर के (दूसरे धर्मके) विकल्प के द्वारा खंडन करना, उसे विकल्पसमा धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः ।। न्यायक० पृ. १८ । ।
(अ)
(C-54-55-56-57-58-59-60 ) - तु० पा० प्र० प० ।
For Personal & Private Use Only
www.jainelibrary.org