________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १७, १८, १९, नैयायिक दर्शन
१४३
(उपरोक्त) कहे हुए सन्निकर्षो में पाँच प्रकार के संबंध (सन्निकर्ष) से संबद्ध वस्तु में समवाय और घटादि दृश्याभाव (घटाद्यभाव) का विशेषणत्व और विशेष्यत्व होता है। वह इस अनुसार (१) तन्तुओ में पट समवाय संबंध से रहता है । अर्थात् "तन्तवः पटसमवायवन्तः" या "तन्तुषु पटसमवायः" यहां "पटसमवायवन्तः" विशेषण है और "तन्तवः" विशेष्य है। इसलिए विशेषण-विशेष्यभाव संबंध से समवाय का प्रत्यक्ष होता है।
(२) “घटशून्यं भूतलम्, इह भूतले घटो नास्ति" अर्थात् घटाभाववत्भूतलम् यहाँ "घटाभाव" विशेषण और "भूतलम्" विशेष्य है। इस विशेषण-विशेष्यभाव संबंध से अभाव का प्रत्यक्ष होता है।
इस प्रकार विशेषण-विशेष्यभाव सन्निकर्ष से समवाय और अभाव का प्रत्यक्ष होता है। इस अनुसार छ: प्रकार के सन्निकर्ष है। ___ अथ निकर्षग्रहणमेवास्तु सं-ग्रहणं व्यर्थम्, न, सं-शब्दग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वात् । एतदेव सन्निकर्षपटकं ज्ञानोत्पादे समर्थं कारणं, न संयुक्तसंयोगादिकमिति संग्रहणाल्लभ्यते । इन्द्रियार्थसन्निकर्षादुत्पन्नं जातम् । उत्पत्तिग्रहणं कारकत्वज्ञापकार्थम् । अत्रायं भावः । इन्द्रियं हि नैकट्यादर्थेन सह संबध्यते, इन्द्रियार्थसंबन्धाञ्च ज्ञानमुत्पद्यते । यदुक्तम्
“B-73आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति, यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ।।१।।" ___B-74ज्ञानसंग्रहणं सुखादिनिवृत्त्यर्थं, सुखादीनामज्ञानरूपत्वात् । सुखादयो ह्यालादादिस्वभावा ग्राह्यतयानुभूयन्ते, ज्ञानं त्वर्थावगमस्वभावं ग्राहकतयानुभूयत इति ज्ञानसुखाद्योर्भेदोऽध्यक्षसिद्ध एव । अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं स्यात् । B-75अव्यपदेश्यपदग्रहणाभावे हि व्यपदेशः शब्दस्तेनेन्द्रियार्थसन्निकर्षेण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्यक्षफलं स्यात्तन्निवृत्त्यर्थमव्यपदेशपदोपादानम् । इदमत्र तत्त्वम्-चक्षुर्गोशब्दयोापारे सत्ययं गौरिति विशिष्टकाले यज्ज्ञानमुपजायमानमुपलभ्यते, तच्छब्देन्द्रियोभयजन्यत्वेऽपि प्रभूतविषयत्वेन शब्दस्य प्राधान्याच्छाब्दमिष्यते, न पुनरध्यक्षमिति । इन्द्रियजन्यस्य मरुमरीचिकासूदकज्ञानस्य, शुक्तिशकले कलधौतबोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम्-76 । यदतस्मिंस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानम्, तद्व्यवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि । व्यवसीयतेऽनेनेति व्यवसायो विशेष उच्यते । विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मकं निश्चयात्मकमB-77 । एतेन संशयज्ञानमनेकपदार्थालम्बनत्वादनिश्चयात्मकत्वाञ्च प्रत्यक्षफलं न भवतीति ज्ञापितम् । नन्वेवमपि ज्ञानपदमनर्थकमन्त्यविशेषणाभ्यां ज्ञानस्य लब्धत्वात्, न । धर्मिप्रतिपादनार्थत्वादस्य, ज्ञानपदोपात्तो हि
(B-73-74-75-76-77)- तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org