________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १३, नैयायिक दर्शन
__ श्लोकार्थ : अक्षपाद (नैयायिक) मत में विभु, नित्य, एक, सर्वज्ञ, नित्यबुद्धि के आश्रय (नित्यज्ञानवाले) जगत का सर्जन और विसर्जन करनेवाले देव शिव है।
व्याख्या-अक्षपादेनाद्येन गुरुणा यतः प्रणीतं नैयायिकमतस्य मूलसूत्रं, तेन नैयायिका आक्षपादा अभिधीयन्ते, तन्मतं चाक्षपादमतमिति । तस्मिन्नाक्षपादमते शिवो महेश्वरः, सृष्टिश्चराचरस्य जगतो निर्माणं, संहारस्तद्विनाशः, द्वन्द्वे सृष्टिसंहारौ, तावसावचिन्त्यशक्तिमाहात्म्येन करोतीति सृष्टिसंहारकृत् । केवलायाः सृष्टेः करणे निरन्तरोत्पाद्यमानोऽसंख्यः प्राणिगणो भुवनत्रयेऽपि न मायादिति सृष्टिवत्संहारस्यापि करणम् । अत्र B-4"प्रयोगमेवं शैवा व्याहरन्ते । भूभूधरसुधाकरदिनकरमकराकरादिकं बुद्धिमत्पूर्वकं, कार्यत्वात् । यद्यत्कार्यं तत्तष्टुद्धिमत्पूर्वकं, यथा घटः, कार्यं चेदं, तस्माष्टुद्धिमत्पूर्वकम् । यश्चास्य बुद्धिमान्स्रष्टा, स ईश्वर एवेत्यन्वयः । व्यतिरेके गगनम् । न चायमसिद्धो हेतुः, भूभूधरादीनां स्वस्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्य जगति सुप्रसिद्धत्वात् । नापि विरुद्धोऽनैकान्तिको वा, विपक्षादत्यन्तं व्यावृत्तत्वात् । नापि कालात्ययापदिष्टः प्रत्यक्षागमाबाध्यमानसाध्यधर्मधर्मिविषये हेतोः प्रवर्तनात् । नापि प्रकरणसमः, तत्प्रतिपन्थिपदार्थस्वरूपसमर्थनप्रथितप्रत्यनुमानोदयाभावात् । अथ निर्वृतात्मवदशरीरत्वादेव न संभवति सृष्टिसंहारकर्तेधर इति प्रत्यनुमानोदयात्कथं न प्रकरणसम इति चेत्, उच्यते, अत्र त्वदीयानुमाने साध्यमान ईश्वरो धर्मी त्वया प्रतीतोऽप्रतीतो वाभिप्रेयते । अप्रतीतश्चेत्, तदा त्वत्परिकल्पितहेतोराश्रयासिद्धिदोषः प्रसज्येत । प्रतीतश्चेत्, तर्हि येन प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितनिजतनुरपि किमिति नाभ्युपेयत इति कथमशरीरत्वम् । ततो न प्रकरणसमदोषता हेतोः, अतः साधूक्तं “सृष्टिसंहारकृच्छिवः” इति । तथा विभुराकाशवत्सर्वजगद्व्यापकः । नियतैकस्थानवर्तित्वे ह्यनियतप्रदेशवर्तिनां पदार्थानां प्रतिनियतयथावन्निर्माणानुपपत्तेः । न
टेकस्थानस्थितः कुम्भकारोऽपि दूरतरघटादिघटनायां व्याप्रियते, तस्माद्विभुः तथा नित्यैकसर्वज्ञःB-47 ।
टीकाका भावानुवाद : (जिनका दूसरा नाम गौतम है वह)अक्षपाद नाम के आद्यगुरु के द्वारा नैयायिकमत का मूलसूत्र रचा गया है। उस ग्रंथ का नाम नैयायिकसूत्र है । इसलिये नैयायिको को "आक्षपाद" भी कहा जाता है। उस आक्षपादमत में शिव-महेश्वर चराचर जगत (सृष्टि) का निर्माण (सर्जन) और विसर्जन (नाश) करनेवाले है। वे महेश्वर जगत का सर्जन और नाश अचिन्त्यशक्ति के माहात्म्य से करते है। . वे महेश्वर यदि केवल जगत के सर्जन में ही प्रवृत्त है, ऐसा मानेंगे तो निरंतर उत्पन्न होता असंख्य प्राणीओ (B-46-47) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org