________________
षड्दर्शन समुच्चय, भाग-१, सारस्वतवचनम्
सारस्वतवचनम्
इह किल प्रचञ्चूर्यमाणे वैरिञ्चे प्रपञ्चे प्रायशः सर्वे एव हि शरीरावच्छिन्नजीवात्मानः सुखस्य प्राप्ति दुःखस्य च निवृत्तिं कामयमाना दृष्टिपथमवतरन्ति । __ आत्यन्तिकदुःखनिवृत्तिस्तु जीवात्मनः मोक्षे एव सम्भवति, मोक्षश्च तत्त्वज्ञानाधीनः, तत्त्वज्ञानञ्च दर्शनशास्त्रप्रयोज्यम्। दर्शनशास्त्रञ्च षड्विधमिति परमपूज्याचार्यभगवता हरिभद्रसूरिणा षड्दर्शन समुच्चये -
दर्शनाति षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ।। बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि दर्शनानाममून्यहो ।। - इत्युक्तम् । तत्र जैनदर्शने सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रं चेति रत्नत्रयमेतन्मोक्षसाधनम् । अत्र च जैननयप्रवचनसारसंकलनपरे परमागमसारे योगदेवेन श्रद्धानापरपर्यायं सम्यग्दर्शनमिति - “तत्त्वार्थं श्रद्धानं सम्यग्दर्शनम्" इति तत्त्वार्थसूत्रानुसारि प्रपञ्चितम् ।। वाचकमुख्येनाऽप्याख्यायते - “सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्गः” इति तदुक्तमन्यत्रापि -
रूचिर्जिनोक्ततत्त्वेषु सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ।।
सम्यग्ज्ञानञ्च
यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा ।
योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ।। - इत्युक्तलक्षणम् ।
तच्च मतिश्रुतावधिमनःपर्यायकेवलज्ञानभेदात् पञ्चधा । सम्यक्चारित्रञ्च संसारकारणकर्मकलापमुछेत्तुमिच्छोः
सम्यग्दर्शनापरपर्यायश्रद्धानशीलस्य ज्ञानिनो दुष्कृति - सङ्गमननिदानाचरणकारणनिवृत्तिरूपम् । सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org