SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ष पुच्चय, भाग-१, सारस्वतवचनम् त्रीणि चैतानि रत्नानि मिथो मिलितान्येव परमपुरुषार्थसाधनानि, न पुनः प्रातिस्विकरूपेण, एतानि च परस्पराविरुद्धस्वभाववन्ति भवन्ति, ---- - भवन्ति मिथो मिलन्त्येव मोक्षायालम् । विरुद्धप्रकृतिकान्यपि सत्त्वरजस्तमांसि परस्परमपेक्षमाणान्येवैकमपरमभिभवन्त्यपि यदि वा वातपित्तकफाख्या दोषा अपि विरुद्धस्वभावा समविषमभावापन्ना वर्जयित्वैकं नार्जयन्ति कार्यम्, किमुताविरुद्धनिजभावानि तानि रत्नानीति । यद्यपि अत्रोक्तः सर्वोऽपि विषय: सर्वजनहिताय स्वनामधन्येन आचार्य भगवता हरिभद्रसूरिणा स्वनिर्मितषड्दर्शनसमुच्चये विस्तरेण वर्णितः । तथाऽपि आधुनिकानां सर्वेषां मुमुक्षूणां संस्कृतभाषायां तावत् प्रभुत्वाभावेन तत्सर्वोऽपि मोक्षोपयोगी पदार्थः मुमुक्षूणां अनभिज्ञो भवेदिति मत्त्वा स्वगुर्वादेशप्राप्तेन तपस्विना मुनिना संयमकीर्ति महाराजेन स्वार्थं विनैव भाषान्तररूपमेतावन्महत्कार्यमनुष्ठितम् । अत एवोक्तं नीतिशास्त्रे - "एते सत्पुरुषा: परार्थघटका:" इत्यादि । तत्र सर्वप्रथमन्तावत् गुर्जरप्रान्तं मनसि निधाय तैस्तादृशाकरग्रन्थस्य गुर्जरभाषायामनुवादो विहितः। तावता महता कार्येणाऽपि तेषां प्रवृत्तिः नैव शान्ता, एतैः मुनिभिः न्यायाचार्येण मेहुलशास्त्रिणा समं वार्तालापं विधाय समस्तभारतवर्षं लक्षीकृत्य सर्वेषां भारतीयानां मोक्षोपयोगिदर्शनाध्ययने प्रवृत्तिः सरला भवेदिति ध्यात्वा अस्याकरग्रन्थस्य हिन्दी भाषायामप्यनुवादोऽनुष्ठितः । अतः परं तादृशानुवादस्य पदपदार्थयोः सम्बन्धः समीचीनोऽस्ति न वेति समस्यायामुपस्थितौ कस्यचिद् विदुषः आवश्यकताऽभूत्, तदानीमेतैः मुनिभिः मत्सम्पर्क: साधितः, तत्र तावदध्ययनाध्यापनकार्ये व्यस्तोऽप्यहं समयाऽभावेऽपि किञ्चित्कालं सम्प्रदाय अस्मिन् महति अनुवादकर्मणि संशोधनकार्य सम्पादितवान् । तत्र संशोधनकार्यवेलायां कश्चिन्मामकः अनुभवः अभूत्; यथा एतत्कार्यस्य पारलौकिकं प्रयोजनं पूर्वमस्माभिर्दृष्टम्। तथैव ऐहिकलाभोऽपि कार्यस्यास्य विद्यते एव; समस्तभारतवर्षे स्नातकस्नातकोत्तरकक्षायामभ्यासक्रमे भारतीयदर्शनमास्ते, मन्येऽहं तत्रायं ग्रन्थः महदुपकृतो भविष्यतीति । अपरञ्च मूलग्रन्थे दुरुहपदार्थानामवबोधे सर्वेषां प्रवृत्तिः सुकरा न स्यात्, किन्तु अनेन अनुवादग्रन्थेन सर्वेषां जिज्ञासूनां प्रवृत्तिः अतीवसरलाऽभूत् इत्यलम्पल्लवितेन । कार्तिक वद-१३, २०६८ र्डा. विष्णुप्रसाद शास्त्री दिनांक २३-११-२०११ न्यायाचार्यः बुधवार सम्पूर्णानन्द संस्कृत विश्व विद्यालय, वाराणसी Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004073
Book TitleShaddarshan Samucchaya Part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy