________________
षड्दर्शन समुच्चय भाग - १, श्लोक - ९, बोद्धदर्शन
प्रमेयस्य साक्षात्पारंपर्येण वा प्रमाणं प्रति कारणत्वात् । तदुक्तम् - " नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः” [ न्यायकुसु० पृ. ६४० ] इति । प्रत्यक्षपरोक्षातिरिक्तं प्रमेयान्तरं नास्तीति चाध्यक्षेणैव प्रतिपाद्यते । अध्यक्षं हि पुरः स्थितार्थसामर्थ्यादुपजायमानं तद्गतात्मनियतप्रतिभासावभासादेव तस्यार्थस्य प्रत्यक्षव्यवहारकारणं भवति । तदन्यार्थात्मतां च तस्य व्यवच्छिन्दानमन्यत्परोक्षमर्थजातं सकलं राश्यन्तरत्वेन व्यवस्थापयत्तृतीयप्रकाराभावं च साधयति, अध्यक्षेणाप्रतीयमानस्य सकलस्यार्थजातस्यान्यत्वेन परोक्षतया व्यवस्थापनात् । अन्यथा तस्य तदन्यार्थरूपताऽव्यवच्छेदे स्वीयरूपतयापि परिच्छेदो न भवेदिति न किंचित्प्रत्यक्षेणावगतं भवेत् । प्रतिनियतस्वरूपता हि भावानां प्रमाणतो व्यवस्थिता । अन्यथा सर्वस्य सर्वथोपलम्भादिप्रसङ्गतः प्रतिनियतव्यवहारोच्छेदप्रसक्तिर्भवेत् । प्रतिनियतस्वरूपता चेन्न प्रत्यक्षावगता किमन्यद्रूपं तेन तस्यावगतमिति पदार्थस्वरूपावभासिनाध्यक्षेण प्रमेयान्तराभावः प्रतिपादित एव । अनुमानतोऽपि तदभावः प्रतीयत एव, अन्योन्यव्यवच्छेदरूपाणामितरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थापनात् । प्रयोगश्चात्र । यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था, न तत्र प्रकारान्तरसंभवः । तद्यथा पीतादौ नीलप्रकारव्यवच्छेदेनानीलप्रकारव्यवस्थायाम् । अस्ति च प्रत्यक्षपरोक्षयोरन्यतर-प्रकारव्यवच्छेदेनेतरप्रकारव्यवस्था व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वस्मिन्प्रमेय इति विरुद्धोपलब्धिः, तदतत्प्रकारयोः परस्परपरिहारस्थितलक्षणत्वात् । अतः प्रमेयान्तराभावान्न प्रमाणान्तरभावः । उक्तं च- “न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य संभवः । तस्मात्प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते । । १ । ।" [प्र. वा० २६३] इति ।।
अत्र शाब्दोपमानार्थापत्त्यभावादिप्रमाणान्तराणां निराकरणं प्रत्यक्षानुमानयोरन्तर्भावनं वा यथा भवति, तथा प्रमाणसमुच्चयादिबौद्धग्रन्थेभ्यः संमत्यादिग्रन्थेभ्यो वावगन्तव्यम् । ग्रन्थगौरवभयात्तु नोच्यते । ततः स्थितमेतत्, प्रत्यक्षानुमाने द्वे एव प्रमाणे इति ।। ९ ।।
६५
टीकाका भावानुवाद :
शंका : परोक्षविषयक प्रमाण का अनुमान में अन्तर्भाव भले ही हुआ, परन्तु अर्थान्तरविषयक शब्दादि प्रमाणो का अनुमान में अन्तर्भाव करना योग्य नहीं है । अर्थात् आगमादि प्रमाण भिन्न प्रकार के पदार्थो को विषय बनाते है । इससे उसका अन्तर्भाव अनुमान में करना उचित नहीं है I
(अ) 'कारणं विषयः' भ० २ । अहेतुश्च विषयः कथम् "
[प्र० वा० ३ / ४०६ ]
" नाहेतुर्विषय:" [प्र० वार्तिककाल० ३ / ४०६ ] । " न ह्यकारणं प्रतीतिविषय:" [हेतु बि० टी० पृ० ८०] (ब) " यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसंभवः तद्यथा नीलप्रकारव्यवच्छेदेन अनीलप्रकारान्तरव्यवस्थायां पीते । हेतु बि० टी० पृ० १४८ । तत्त्व सं० प० ४३३-४८५ ॥
For Personal & Private Use Only
Jain Education International
-
www.jainelibrary.org