________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १
मनसोऽभिनिवेशस्ततो नासाववश्यं वेद्यो नापि तस्य दारुणो विपाकः । केवलमतिशुष्कसुधापङकधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति । मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात् । तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञानमिति । अन्यञ्च, भवेद्युक्तो ज्ञानस्याभ्युपगमो, यदि ज्ञानस्य निश्चयः कर्तुं पार्येत ।यावता स एव न पार्येत । तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः, ततो न निश्चयः कर्तुं शक्यते, किमिदं सम्यगुतेदमिति । अथ यत्सकलवस्तुस्तोमसाक्षात्कारिभगवद्वर्धमानोपदेशादुपजायते ज्ञानं तत्सम्यग्नेतरत्, असर्वज्ञमूलत्वादिति चेत् सत्यमेतत्, किंतुस एव सकलवस्तुस्तोमसाक्षात्कारी, नतुसौगतादिसंमतः सुगतादिरिति कथं प्रतीयते, तद्ग्राहकप्रमाणाभावादिति तदवस्थः संशयः । ननु यस्य दिवः समागत्य देवाः पूजादिकं कृतवन्तः, स एव वर्धमानः सर्वज्ञो, न शेषाः सुगतादय इति चेन्न, वर्धमानस्य चिरातीतत्वेनेदानी तद्भावग्राहक प्रमाणाभावात् । संप्रदायादवसीयत इति चेत् । ननु सोऽपि संप्रदायो धूर्तपुरुषप्रवर्तितः किं वा सत्यपुरुषप्रवर्तित इति कथमवगन्तव्यं, प्रमाणाभावात् । न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः । मा प्रापदतिप्रसङ्गः । अन्यञ्च मायाविनः स्वयमसर्वज्ञा अपि जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः स्वस्य पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः । तथा चाह जैन एव स्तुतिकारः समन्तभद्रः“देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।। १ ।।" [आप्तमी० १/१]
टीकाका भावानुवाद : तथा कुत्सितज्ञान अर्थात् अज्ञान जिनको है वे अज्ञानिक। यहां "कुत्सितं ज्ञानं अज्ञानम् एषाम् अस्ति" इस व्युत्पत्ति में 'अतोऽनेकस्वरात्' इस सूत्र से मत्वर्थीय "इक" प्रत्यय लगकर अज्ञानिक बना है। (संक्षिप्त में जिन को अज्ञान है वे अज्ञानिक) अथवा अज्ञानपूर्वक जिनका आचरण - व्यवहार है, उन्हें अज्ञानिक कहते है।
बिना विचारे अज्ञानपूर्वक किया हुआ कार्य और इससे बंधाया हुआ कर्मबंध विफल हो जाता है, वह दारुण विपाक नहीं देता । - ऐसा स्वीकार करनेवाले शाकल्य, सात्यमुनि, मौद, पिप्लाद, बादरायण, जैमिनी, वसु, इत्यादि (५)अज्ञानिक है । वे कहते है कि ज्ञान श्रेयस्कर नहीं है। क्योंकि ज्ञान होने पर भी विरुद्धप्ररुपणा होने का संभव है। उससे विवाद होता है। विवाद के योग से चित्त की कलुषितता आदि (५) शाकल्यवाल्कलकुथुमिसात्यमुग्रिनारायणकण्ठमाध्यन्दिनमौदपैप्पयादबादरायणाम्बष्टीकृदौरिकायन
वसुजैमिन्यादीनामज्ञानकुद्दष्टीनां सप्तषष्टिः ॥॥ राजवार्तिक - पृ. ४१ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org