________________
षड्दर्शन समुच्चय भाग - १, श्लोक - १
इस अनुसार आत्मा में स्तंभादि को देखकर, स्तंभादि से व्यतिरिक्त (भिन्न) है, ऐसी बुद्धि प्रवर्तित होती है। इसलिए आत्मा का स्वरुप परत: ही अवधारण होता है, स्वतः नहि । इस प्रकार नित्यत्व के परित्याग के बिना (अर्थात् नित्यत्व को लेके) दूसरे दस विकल्प होंगे। इस प्रकार अनित्यत्व को लेकर भी दस विकल्प होंगे । इस प्रकार सर्व भी मिलके २० विकल्प हुए। ये २० विकल्प जीव पदार्थ द्वारा प्राप्त हुए । इस प्रकार से अजीवादि आठ पदार्थों में प्रत्येक के २०-२० विकल्प प्राप्त होते है । इसलिये २० x ९ = १८० क्रियावादि है।
तथा न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति ते अक्रियावादिन A-21 आत्मादिनास्तित्ववादिन इत्यर्थः । ते च A-22 कोकुलकाण्ठेवि द्विरोमकसुगतप्रमुखाः । तथा चाहुरेके - “ A-23 क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते 11१ ।।
२१
एतेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या । A-24 पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थसप्तकन्यासः । तस्य चाधः प्रत्येकं स्वपरविकल्पोपादानम् । असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः । कालादीनां पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते । इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनस्ततः प्राग्यदृच्छा नोपन्यस्ता । 4- 25 तत एवं विकल्पाभिलापः । नास्ति जीवः स्वतः कालत इत्येको विकल्पः । अयं भावः । इह पदार्थानां लक्षणतः सत्ता निश्चीयते कार्यतो वा । न चात्मनस्तादृगस्ति लक्षणं, येन तत्सत्तां प्रतिपद्येमहि । नापि कार्यमणूनामिव महीध्रादि संभवति । अतो नास्त्यात्मेति एवमीश्वरादिवादिभिरपि यदृच्छापर्यन्तैर्विकल्पा वाच्याः । सर्वेऽपि मिलिताः षड्विकल्पाः । अमीषां च विकल्पानामर्थः प्राग्वद्भावनीयः । नवरं यदृच्छात इति यदृच्छावादिनां मते । यदृच्छा ह्यनभिसंधिपूर्विकार्थप्राप्तिः अथ के ते यदृच्छावादिनः । उच्यते । इह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति, किं तु यदृच्छया, ते यदृच्छावादिनः, ते ह्येवमाहुः । न खलु प्रतिनियतो वस्तूनां कार्यकारणभावस्तथा प्रमाणेनाग्रहणात् । तथाहि शालूकादपि जायते शालूको, गोमयादपि जायते शालूकः । वह्नेरपि जायते वह्निररणिकाष्ठादपि, धूमादपि जायते धूमोऽग्नीन्धनसंपर्कादपि । कन्दादपि जायते कदली बीजादपि । वटादयो बीजादुपजायन्ते शाखैकदेशादपि । गोधूमबीजादपि जायन्ते गोधूमा वंशबीजादपि । ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति । यदृच्छातः क्वचित्किंचिद्भवतीति प्रतिपत्तव्यम् । न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथात्मानं प्रेक्षावन्तः परिक्लेशयन्ति । यदुक्तम्
“अतर्कितोपस्थितमेव सर्वं चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाभिघातो न बुद्धिपूर्वोऽस्ति वृथाभिमानः ।19।। " [ आचा० २/१/१/१/४] इत्यादि । दुष्टमेव सर्वं
(A-21-22-23-24-25 ) तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org