________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १
चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रचारगर्भाधानवर्षादयो वर्तुविभागसंपादिता बालकुमारयौवनवलीपलितागमादयो वावस्थाविशेषा घटन्ते, प्रतिनियतकालविभागत एव तेषामुपलम्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत् । न चैतदृष्टमिष्टं वा । अपि च । मुद्गपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते । किं तु कालक्रमेण । अन्यथा स्थालीन्धनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्या भावो भवेत् । न च भवति । तस्माद्यत्कृतकं तत्सर्वं कालकृतमिति । तथा चौक्तम् - “न कालव्यतिरेकेण गर्भबालयुवादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल ।। १ ।। किं च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ।। २ ।। कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ।। ३ ।। [शास्त्रवा० श्लो० १६५१६८] काल: पचति भूतानि काल: संहरते प्रजाः । काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।। ४ ।।" [महाभा० हारीतसं०] अत्र परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिरूपहेतुसद्भावमात्रादेव तदुद्भवादिति गर्भाधुद्भवप्रसङ्गात् । तथा कालः पचति, परिपाकं नयति परिणतिं नयति भूतानि पृथिव्यादीनि । तथा कालः संहरते प्रजाः, पूर्वपर्यायात्प्रच्याव्य पर्यायान्तरेण प्रजा लोकान्स्थापयति । तथा काल: सुप्तेषु जागर्ति, काल एव सुप्तं जनमापदो रक्षतीति भावः । तस्माद् हि स्फुटं दुरतिक्रमोऽपाकर्तुमशक्यः काल ।
टीकाका भावानुवाद : द्वितीयअङ्ग सुयगडांगसूत्र में परदर्शनो की संख्या ३६३ कही गई है। (वे ३६३ मतो को बताती) संग्रहगाथा यह है।
असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणि अ सतठी वेणइयाणं च बतीसं (बतीसा) ॥१॥ (सूत्र कृ.नि.गा. ११९) ।। श्लोकार्थ : क्रियावादि के १८०, अक्रियावादि के ८४, अज्ञानी के ६७ और वैनयिको के ३२ भेद है। (इस प्रकार सब मिला के ३६३ भेद है।)
गाथा की व्याख्या : क्रियावादि के १८० भेद है। क्रिया अर्थात् जीवादि का अस्तित्व। "जीवादि का अस्तित्व है ।" इस प्रकार बोलनेवाले-मान्यता रखनेवाले क्रियावादि है । (१२ प्रजापतिओ में से एक) मरीचिकुमार, कपिल, उलूक (वैशेषिकमत के प्रणेता), माठर (न्यायशास्त्रकार) इत्यादि क्रियावादि है।
वे क्रियावादिओ की १८० संख्या (निम्न) उपाय से जानना । वे जीवादि नवपदार्थो का परिपाटी द्वारा पट्टी में (एक लाईन में) व्यवस्थित रखना । उसके बाद जीवपदार्थ के नीचे स्वतः तथा परतः, इस प्रकार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org