SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८१ शासनसुरीप्रसादाद्देवा अभयादिमास्तदनु ॥ ५०७॥ श्रीजिनवल्लभसूरिस्ततोऽभवद् व्रतधुरैकधौरेयः। चण्डापि हि चामुण्डा यत्सान्निध्यादचण्डाभूत् ॥ ४०८ ॥ तत्पदेऽभूच्चतुः षष्टियोगिनीनां प्रसाधकः । युगप्रधानतामाप्तः सूरिः श्रीजिनदत्तराट् ॥ ४०९॥ नरमणिमण्डितभालास्तत्पट्टे नमदनेकभूपालाः । जिनचन्द्रा गणपाला वाञ्छितदाने विबुधशालाः ॥ ५११ ॥ श्रीजिनपतिगुरुपादाः षट्त्रिशद्वादलब्धजयवादाः । स्थापितगणमर्यादास्ततोऽप्रमादा जयन्त्याद्याः ॥ ५१२ ॥ तदनु जिनेश्वरगुरवस्समभूवन्नेमिचन्द्रकुलचन्द्राः। तदनु प्रबोधसूरिप्रवरास्तत्पट्टसवितारः ॥ ५१३ ॥ कलिकालकेवलीति ख्यातिप्राप्तास्ततश्च जिनचन्द्राः । बोधितभूपचतुष्टयकृतसेवा राजगच्छाख्याः ॥ ५१४॥ श्रीजिनकुशलमुनीन्द्रास्तत्पट्टे विघ्नकरटिपारीन्द्राः । विषमपथे जनमार्गितजलदायप्रथितपृथुयशसः ॥ ५१५ ॥ तत्पदपद्ममधुव्रतकल्पा जिनपद्मसूरिनामान: । अवधानकरा राजत्कूर्चालसरस्वती विरुदाः ॥ ५१६ ॥ श्रीजिनलब्धियतीन्द्रा लब्धिनिधानप्रधानगुणकलिता । श्रीजिनचन्द्रा गुरवस्तदनु जयन्ति प्रतापाढ्याः ॥ ५१७॥ कृतजैनशासनोदयविभवाः श्रीमज्जिनोदयास्तदनु । श्रीजिनराजगणोदितमार्गरतास्तदनु जिनराजाः ।। ५१८ ॥ श्रीजिनभद्रयतीन्द्रास्ततो विरेजुः क्रियासु निष्णाताः । तत्पट्टोदयभूधरसूरा जिनचन्द्रनामानः ॥ ५१९ ॥ सद्गुणराशिसमुद्राः समुद्रसूरीश्वरास्तदनु जाताः। तच्चरणकमलहंसाः श्रीजिनहंसा लसद्वंशाः ॥ ५२० ॥ श्रीमज्जिनमाणिक्या: सूरिवराः प्राप्तसुगुणमाणिक्याः । प्रव्राजनगुरवो मम सञ्जातास्तदनु विख्याताः ॥ ५२१॥ तत्पट्टपूर्वाचलचूलिकारविः, सपत्नशैलावलिपक्षसत्पविः । जगज्जनामोदकृदाननच्छविः, सम्यग्यशोवर्णनसारवाक्कविः॥ ५२२॥ युगप्रधानत्वपदप्रदानाज्जलालदीसाहिवरेण सत्कृतः । प्रौढप्रतापो जिनचन्द्रसूरिविराजते सद्विजयी महीतले ॥ ५२३ ॥ तच्चरणाम्बुजहंसाः श्रीजिनसिंहाः प्रतापजितहंसाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy