SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७३ श्लेषे अक्षरच्युतिश्रवणादयः पलोपः । नीरञ्च आगश्च नीरागौ अजनौ जनरहितौ नीरागौ स्थित्याद्यर्थं हेतू येषां ते तथा एकान्तसजल - वनस्थायिन इत्यर्थः । तथा अरणं आरो विहा यो गतिर्बहुलस्य आपः प्राप्तियेषां ते बहुलालापाः । श्लेषे रलयोरेकत्व श्रवणात्, सपक्षत्वेन बहुलनभोगतयः ।। ४ ।। यद्वा, एके कवयः बालक ह्रस्वा बाला बालका, अल्पाख्यायां कन् चूर्णकुन्तला इव सन्ति । ते किम्भूता पदन्यासे-वेणीलक्षणस्थानरचनायां अप्रगल्भा :- असमर्था असंस्कार्यत्वात् तेन जनानां - युव लोकानां रागाभावजनकाः, अपुष्पमालवेणीविन्यासेन बद्धा एव केशारागजनका इति । तथा अलीनां समूह आलं, पद्मिनीमुखवर्त्तित्वेन कर्णोत्पलनिकटवर्त्तित्वेन वा बहुल : आलस्य-भ्रमरसमूहस्य आपःप्राप्तिर्येषु ते, पद्मिनीमुखस्य कर्णोत्पलस्य च सुरभित्वात् । यद्वा, बहुलाडे - देशविशेषे आप :- प्राप्तिर्येषां ते, तद्देशे हि अदीर्घा एव केशाः स्युरिति । डलयोरैक्याद् बहुलालापाः ।। ५ ।। एके अबालका:- पण्डिताः कस्य ब्रह्मणो वय:- पक्षिणो राजहंसा इव सन्ति किम्भूता राजहंसा:? पदन्यासे-ब्रह्मचरणन्यासे प्रगलतीति प्रगल्, न प्रगल् अप्रगल्, एवं विधा अक्षरा भा-प्रभा येषां ते। ब्रह्मवाहनत्वात्। अतएव जनेषु निश्चितं राजन्ते इति जननीरा:, "चचित्" डः ! तथा गो-गमनं तत्र हेतवः विधेर्गमने कारणं । तथा "लल् विलासे" ललनं लाल :- विलासः बहुललस्य-लीलाविशेषस्य -प्राप्तिर्येषु ते बहुलालापाः ।। ६ ।। आपः यद्वा, हे अ ! - कृष्ण ! तव एके कवयः अबालका:- प्रौढा इव सन्ति । तव इत्यत्र श्लेषाद्विसर्गलोपः । हे प्रगल्भाः । पदन्यासप्रगल्भं धृष्टं प्रकरणाद् बलिं अस्यति- पाताले क्षिपतीति प्रगल्भाः, ईदृग्विधः पदन्यासः - क्रमक्षेपो यस्य स तस्य सम्बोधनम् । तथाइ :- कामस्तस्य जननीलक्ष्मीस्तस्यां रागो यस्य स इज़ननीरागस्तस्य सम्बुद्धौ इजननीराग!, न विद्यते बहुलस्य प्रभूतस्य आलस्य अनर्थस्य आपः-व्याप्तिर्येषुते। " आप् तृद्व्याप्तौ ”। अबहुलालापा एतत्कविविशेषणम् ।। ७ ।। यद्वा, एके कवय अबालका इव सन्ति । किम्भूताः कवयः अवत्-विष्णुवत् प्रगल्भाः । क्व पदन्यासे-पदरचनायां, यथा तेन पदत्रयेण विश्वत्रयं व्याप्तं तथा कविभिः स्ववचनरचनया, "नीञ् प्रापणे " जनान्नयन्ति-सुखं प्रापयन्तीति जनस्य:- राजानस्तेषां रागहेतवः । तथा बहु - अत्यर्थं लान्ति अर्थात् यशो गृणन्तीति बहुला, एवंविधा आलापा येषां ते बहुला - लापाः । । ८ । । यद्वा, एकाम ! तव के कवयः बालका इव सन्ति, न केऽपि त्वां स्तोतु सर्वेऽपि प्रौढा एवेति भावः । हे आपदन्यासे अप्रगल्भ ! आपदां समूह आपदं तस्य न्यसनं - न्यासः स्थापनं तस्मिन् अप्रगल्भ, सर्वसम्पन्निदानत्वात्। श्लेषाद्विसर्गलोपः । तथा हे जननीराग । जनानां कामुकलोकानां निश्चितो रागो यत्रेति, दृष्टिकामस्नेहभेदेन रागस्य त्रिविधत्वात् । बहुल:- सम्भोग - विप्रलम्भादिविषय आलापो येषां ते बहुलालापा इति कविविशेषणम् ।। ९ ।। -- गुणविनय की इस व्याख्या में दमयन्तीकथा चम्पू मूल के पाठभेद / पाठान्तर बहुत कम दृष्टिगोचर होते हैं। चम्पू तृतीय उच्छ्वास पद्य ३ के बाद गद्य में आगत 'दीर्घिकामण्डनमुण्डमालासु' की व्याख्या ‘दीर्घिकामण्डनमुण्डमालासु' इति पाठे दीर्घिकाणां मण्डनाय या मुण्डमालाः कपिशीर्षाणि तासु-कारण्डवमण्डलीषु हिण्डमानासु सतीषु । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy