________________
७२
चम्पू प्रथम उच्छ्वास पद्य ४४ में आगत "दंष्ट्राद्वन्द्वकरालकालवदनः" की व्याख्या
हस्तिनो दंष्ट्राद्वयमस्त्येवातस्तदंष्टोपमानकल्पना न कृता, अञ्जनमेघ- योश्च सूकरदंष्ट्रोपमानस्य प्रकृत्या असत्वात् तत्परिकल्पना कृतेति। कोलस्य मेघकुञ्जरयोरुपमानं दंष्ट्रयोर्बलाकाद्वयकरिदन्तयोरुपमानम्। अत्र युग्मपदे द्वन्द्वशब्दं कश्चित् पठति, तदयुक्तं। स्फटिकयोर्द्वन्द्वमित्यत्र कथितस्य द्वन्द्वपदस्य पुनः प्रयोगे पुनरुक्तता स्यात्, तेन दंष्ट्रायुग्मेति पाठः श्रायसः॥४४॥
चम्पू प्रथम उच्छ्वास पद्य ४५ में आगत 'भाययन्' की व्याख्या
भाययन्नित्यत्र भयोत्पत्तौ पूर्वोक्तभेदनादिक्रियाणां करणतां अध्याहार्या। यद्वा, घण्टालालान्यायेन पूर्वार्थसम्बद्धया मन्दरलीलायाः करणता योज्या। न तु कोलस्य भयहेतुत्वं अतो बिभेतेर्हेतु भये इत्यात्वम्। आत्मेनपदं च न भवति। मुण्डो भाययते इत्यादिवत्॥४५॥
चम्पू प्रथम उच्छ्वास पद्य ४६ की व्याख्या
अत्रास्माभिरर्थवशाद् विभक्तिपरिणामं विधाय व्याख्या व्यधायि। सूत्रकृता तु युष्मदस्मदोर्युगपद्योगे अव्यवधानाच्च पुरुषविशेष इति वचनादस्मत्प्रयोग एवोक्त इति। प्रौढ़ पाण्डित्य का प्रदर्शन मंगलाचरण पद्य ६ की व्याख्या में स्पष्टतः दर्शनीय है:
अप्रगल्भाः पदन्यासे जननीरागहेतवः।
सन्त्येके बहुलालापाः कवयो बालका इव।।६।। अप्रगल्भा इत्यादि। एके कवयः बालका इव सन्ति। किम्भूताः कवयः? पदन्यासे-विभक्त्यन्तं पदं तेषां न्यासे-नैयत्यप्रयोगे अप्रगल्भा:-अनिपुणाः, तथा जनानां-लोकानां नीराग-रागाभावस्तत्र हेतवः कारणं, न हि ताहशं काव्यं श्रुत्वा रसिकानां कञ्चच्चमत्कार : संजायते। तथा बहुलालापाः। एतेन नि:सारस्वत् कृत्वोक्तिः।। १ ।। . बालकपक्षे - पदन्यासे-चरणक्षेपे अप्रगल्भाः , तथा जनन्या:- मातू रागहेतवः-अनुरागकारणं, तथा बह्वीं लाला-निष्ठीवनजलं पिबन्तीति बहुलालापाः। यद्वा, बढ्यो लाला-अप्स्वरूपा येषु ते। ऋक्पूरब्धूः पथामनक्ष इति अप्रत्ययः समासान्तः।। २ ।।
अत्र गंभीरार्थत्वात् कविभिरन्येऽप्यर्थं उत्प्रेक्ष्यन्ते। तद्यथा
एके कवय अबालका:- जराजर्जरितदेहा इव तेऽपि अशक्तत्वात् पदन्यासे अप्रगल्भा एव । तथा जनानां युवतिलोकानां नीरागं रागाभावस्तत्र हेतवः। न हि जरद्देहे युवतिजनोऽनुरज्यत इति। तथा निद्रालस्याद्याधिक्येन अबहुल आलापो येषां ते तथाविधाः।। ३।।
यद्वा, एके-केचन कवयः- जलपक्षिण इव सन्ति, के-जले वयः कवयः। किम्भूताः? अरणं आर:, "ऋगतौ" ये गत्यर्थास्ते प्राप्त्यर्था इति वचनात् आर:-प्राप्तिरार एव आरकः, स्वार्थे कः, रलयोरैक्यान् अप्सु आलकः प्राप्तिर्येषां तथा। अतएव पदन्यासे अप्सु प्रगल्भा अप्रगल्भा:-बकादयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org