________________
७१
चम्पू उच्छ्वास ३, पद्य ७ के पहले का गद्य । गद्य में प्रयुक्त 'सौम्यया' शब्द की व्याख्या देखें
ननु सास्यदेवता इत्यधिकृत्य सोमायणिति विधानात् कथमिह सौम्यया इत्युच्यते? सोमदेवता हि तृप्तिहेतुरतः सुन्दरेऽपि वस्तुनि तृप्तिहेतुत्वा- दुपचारात् सौम्यमित्युच्यते। तथा चामरसिंहः “सौम्यं सुन्दरे सोमदैवते" इति। "धारोष्णं तु पयोऽमृतम्" इति शेषोक्तेः। तथा "पेयूषोऽभिनवं पयः" इत्यभिधानचिन्तामणिवाक्ये, “पेयूषमपि पीयूषं" इति शिलोञ्छोक्तेश्च तत्पर्यायस्य सुधेति पदस्याऽपि तयोरिव। क्षीरार्थता श्रीचण्डपालेन व्याकृता इत्यवसीयते। इतरथा सुधासिन्धोरिति शब्दस्य क्षीराब्धिपर्यायता दुर्घटेति ध्येयम्।
चतुर्थ उच्छ्वास श्लोक २७ में आगत 'वक्त्रसरसी' शब्द की व्याख्या
सरसीति “षिद्गौरादिभ्यश्च" इति सरः शब्दस्य गौरादिपाठात् डीप। “महान्ति सरांसि सरस्यः" इति जिनेन्द्रबुद्धिः। सरसीशब्दे पिप्पलादित्वान्महत्त्वे स्त्रीप्रत्यय इति केचित्। अमरसिंहस्तु "कासारः सरसी सरः" इति निर्विशेषमूचे॥ २७॥
चम्पू सप्तम उच्छ्वास पद्य १९ के गद्य भाग में आगत 'सुरासुरैः' शब्द की व्याख्या
सुरासुरैरिति "विरोधाविवक्षयैकवद्भावाभावः शाश्वतिकविरोधाभावात्" इति तु उपाध्यायः प्रकाशवर्षः । येषां च विरोधः शाश्वतिकस्तेषामेव द्वन्द्वैकवद्भावः। यथा अहिनकुलं अश्वमहिषं काकोलूकमित्यादि, एषां च न शाश्वतिको जात्या विरोधः किन्तु कार्यकृतस्तेन नैकवद्भावः। तथा च भारवि:-"सुरासुरैरम्बुनिधिर्ममन्थ'" इति। यदि वा सुरसहिता असुरा इति "शाकपार्थिवादित्वात्" तत्पुरुषः।
चम्पू पंचम उच्छ्वास श्लोक ५३ के पूर्व गद्य में आगत 'दैत्य' शब्द की व्याख्या
दैत्येति "दित्यदित्यादित्यपत्युत्तरपदाण्यः" इति प्राग्दीव्यतीयार्थेषु ण्यः। अत्र पदसंस्कारपक्षाश्रयणाद् दैत्यपदस्य विशेषणत्वं बोद्धव्यं, अन्यथा असुरादिति दनुजाः इत्यभिधानकोषप्रामाण्यात्, उभयोः पर्यायरूपत्वेनैकत्रयुगपदुपन्यासेऽन्यतरस्य वैयर्थ्यमापद्येत।
चम्पू सप्तम उच्छ्वास पद्य २२ के बाद गद्य में प्रयुक्त "परोपकारव्रतधर्माणः'' की व्याख्या
यद्वा, परोपकारो अस्त्येषामिति परोपकाराः "अभ्रादित्वादः" व्रतमेव धर्मो येषां ते व्रतधर्माणः, परोपकाराश्च ते व्रतधर्माणश्चेति समासो अतो "धर्मादनिच् केवलाद्" इति योगेन कथं अनिच् प्रत्यये न भवितव्यं केवलोपपदाभावादिति परास्तम्। नन्वेवं सति विशेष्यपदस्य परोपकारकोटित्वं न विशेषणरूपव्रतपदस्य तत्कथमयं समास इति चेत्? न "सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रमत" इति न्यायेन व्रत एव परोपकारकोटित्वपर्यवसानात्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org