SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छासः तेन संस्कृत:-कृतगुणान्तरः चातुर्जातकसंस्कृतः । तत इक्षुरसपानानन्तरं तेमनस्य-मिष्टानस्य रसास्वादास्तेमनरसाः संसारे- भवचके स्पृहणीयाः-अभिलषणीया ये तेमनरसाः संसारस्पृहणीयतेमनरसास्तान् किञ्चिद्-ईषद् आस्वाद्य-अनुभूय स्निग्धः-सरसः स्तब्ध:-कठिनो यो दधिद्रवः-वस्त्रगालितं दधि तेन सरसः-सस्वादः, 'सरल' इति पाठे सरलः सुनिष्पन्नदीर्घतण्डुलपाकजः अतिक्लिन्नवारिदोषरहितश्चरे एवंविधः शाल्यो दनःकलमशाल्यादिभक्तं भुज्यतां-अश्यताम् । उदीच्येति "धुप्रागप्रागुदक्प्रतीचो यत्" [पा०सू०४।२।१०१] इति शेषेऽर्थे एभ्यो यत्, उदीच्यः प्रतीच्यः प्राप्य इति । दाक्षिणात्येष्विति "दक्षिणापश्चात्पुरसस्त्यक्" [पा०सू०४।२।९८] इति शेषेर्थे त्यक् । दक्षिणस्यां जाताः दाक्षिणात्य इति । यद्यपि अन्नकूरेत्यत्र अन्नकूरयोर्भक्तार्थत्वेन अभिधानकोषे न कश्चिद् विशेषः । "भक्तमन्नं कूरमन्धः" [३।५९] इति । तथाप्यत्र अन्नशब्दोऽशितार्थः । यदनेकार्थः-अन्नं भक्तेऽशिते [२।२६०] इति । कवलशब्दः पुन्नपुंसकः ।। १२ ।। राजा तु प्रतीहार ‘विनिश्चीयतां किमयं बहिः कलकलव्यतिकरः' इत्यभिधाय तत्कालयोग्यपरिजनपरिवृतो भोक्तुमुपाविशत् । तत:१ त्वरितं च गत्वागतश्च स प्रतीहारो विज्ञापयाम्बभूव । 'देव, दमयन्त्या प्रहिताः सूपकाराः सैन्यजनम् आब्राह्मणान्त्यजगोपालबालकम्६, आकरितुरगवाहनम्, आसामन्तनियुक्तकम्, आस्वाद्यैस्तैस्तैर्विशेषैर्भोजयन्ति लग्नाः । सर्वतो दृश्यन्ते पर्वताः पक्वान्नस्य, राशयः शाल्योदनस्य स्तूपाः सूपस्य, निर्झराः सर्पिषः, सिन्धवो मधुनः, निकराः शर्करायाः, स्रोऽतांसि दधिदुग्धयोः, शैलाः शाकानाम्, निपानानि पानकानाम्, कुल्याः फलरसानाम्, कूटाः कषायाम्ललवणतिक्तमधुरोपदंशानाम् । एवमकार्पण्यमिच्छया भोजितं सैन्यम् ।। राजा तु-नल । इत्यभिधाय-उक्त्वा तस्मिन्काले- भोजनावसरे योग्यो यः परिजनस्तेन परिवृतः-परिकरितो भोक्तुं उपाविशत्-निषसाद । इतीति किम् ? हे प्रतीहार !दौवारिक ! विनिश्चीयतां-निर्णीयतां, किमिति प्रश्ने, अयं बहिः कलकलस्य-कोलाहलस्य व्यतिकर:-सम्बन्धः किम् ? कोऽयं कलकल इत्यर्थः । १. रसा: अनू. । २. अतिक्लिन्नतादिदोषरहितश्च अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy