________________
५३०
दमयन्ती-कथा-चम्पू: मूलकादीनि । “स्वादुस्तु सुन्दरे मृष्टे" [२।२४०] इत्यनेकार्थः । शाकशब्दः पुंक्लीबलिङ्गः । किम्भूतं भोज्यम् ? पेयं-पातुं योग्यं द्राक्षापानादि, आस्वाद्यं-अनुभवनयोग्यं आम्ररसादि, कवल्यं-कवलीकरणयोग्यं ओदनादि, लेह्य-मध्वादि ततो द्वन्द्वस्तैर्बहुलं व्याप्तं-सहितमित्यर्थः । शार्दूलविक्रीडितम् ॥ ११ ॥
अहो' खल्वमी मत्स्यमांसैविरहितमुदीच्यप्रतीच्यप्राच्यपरिजनाः३ प्रियसक्तवो भोक्तुमेव न जानन्ति ।
विरलः खलु दाक्षिणात्येषु मांसाशनव्यवहारः । तदाकर्णयतां नैषधाः ।
अहो ! इति आश्चर्ये, खलु इति वाक्यालंकारे । अमी प्रत्यक्षाः उदीच्यां भवा उदीच्याः, प्रतीच्यां भवाः प्रतीच्याः, प्राच्यां भवाः प्राच्यास्ततो द्वन्द्वः, एवंविधा ये परिजनाः सैनिकाः प्रियाः-इष्टाः सक्तवः-धानाचूर्णं येषां ते प्रियसक्तवः, एवंविधाः सन्तो मत्स्यानां मांसानि-मत्स्यमांसानि तैविरहितं-वियुक्तं अर्थाद् भोज्यं भोक्तुमेव न जानन्ति, किन्तु मत्स्यमांससंयुक्तमेव ते भुञ्जते ।
खलु-अनुनये दाक्षिणात्येषु-दक्षिणस्यां जाता दाक्षिणात्यास्तेषु विरलः-स्तोको मांसाशनस्य-पलभक्षणस्य व्यवहारः । तत्-तस्मात् आकर्ण्यतां हे नैषधाः-निषधदेशोद्भवाः सैनिकाः !
आज्यप्राज्यपरान्न कूरकवलैर्मन्दां विधाय' क्षुधां, चातुर्जातकसंस्कृतो नु शनकैरिक्षो रसः पीयताम् । ६संसारस्पृहणीयतेमनरसानास्वाद्य किंचित्ततः,
स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम्' ॥१२॥ आज्येति । आज्येन-घृतेन प्राज्यानि-प्रभूतानि पराणि प्रकृष्टानि अन्नानि-भक्षितानि यानि कूरकवलानि-भक्तपिण्डास्तैः कृत्वा क्षुधां-बुभुक्षां मन्दां-अल्पां विधाय-कृत्वा भवद्भिः अनु-पश्चात् शनकै:-मन्दं मन्दं इक्षोः-रसालस्य रसः-द्रवो पीयताम् । किम्भूतो रसः ?
"त्वगेलापत्रकं चैव त्रिगन्धं च त्रिजातकम् । तदेव मरिचैर्युक्तं चातुर्जातकमुच्यते ॥" [ ]
१. द्रवः अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org