________________
सप्तम उच्छ्वास:
गवीष्विति “गोरतद्धितलुकि " [पा०सू०५ |४| ९२] इति टच् समासान्तः । तथा वायसानांकाकानां बलिस्तम्भशिखरेषु ये फलका :- पट्टास्तेषु प्रक्षाल्यमानेषु - जलेन शोध्यमानेषु सत्सु । तथा दीनाश्च- दयास्पदं अनाथाश्च - अस्वामिका: भिक्षुकाश्च - भिक्षणशीला वराकास्तेषां भैक्षपिण्डेषु - भिक्षाणां समूहो भैक्षं, समूहार्थे तस्य समूहस्य [ पा०सू० ४।२।३७] यद्वा, भिक्षाणां इमे भैक्षास्तस्येदं इत्यण्, एवंविधा ये पिण्डाः - कवलास्तेषु बहिश्चतुष्पथादौ दीयमानेषु सत्सु । भिक्षणशीलो भिक्षुः “सनाशंसतिभिक्ष उ: " [पा०सू०३ |२| १६८] इति उस्ततः स्वार्थे कः । तथा भोजनस्थानस्य या वेद्यः - संस्कृतभूमयस्तासु समुपलिप्यमानासु - छगादिना संस्क्रियमाणासु सतीषु । तथा चकोराणां पञ्जरेषु - शलाकामयेषु बन्धनोपकरणेषु भोजनस्थानं सञ्चार्यमाणेषु-प्राप्यमाणेषु सत्सु । तथा पूज्याः - अर्च्या राज्यस्य या अधिदेवता:-अधिष्ठात्र्यो देव्यस्तासु निवेद्यमानं-दर्श्यमानं नैवेद्यं बलिर्यासां तास्तथाविधासु सतीषु, राज्याधिदेवतानां नैवेद्ये दर्श्यमाने इत्यर्थः । तता महानसस्य - पाकस्थानस्य यो मरुत् - वायुस्तस्मिन् वहति-वाति सति । किम्भूते महानसंमरुति ? विश्वदेवा: - त्रयोदशदेवविशेषास्तेषामियं वैश्वदेवीविश्वदेवसम्बन्धीनि या आहुति:- होमस्तस्य गन्धं वहतीत्येवंशीलो वैश्वदेवाहुति गन्धवाही तस्मिन्, “स्त्रियाः पुंवद्भाषितपुंस्कादित्वात् [पा०सू०६ | ३ | ३४] इति उक्तं पुंस्कात् परस्यानूङ: स्त्रीप्रत्ययस्य पुंवद्भावः । तथा विविधान्नानां - अनेकविधभक्तानां पाकस्य यः परिमल:आमोदस्तेन मनोहरे - रम्ये ।
आज्यं प्राज्यमभिन्नकुन्दकलिकाकल्यश्च शाल्योदनो, सूपो धूपमनोहरा शिखरिणी स्वादूनि शाकानि च । पेयास्वाद्यकवल्यलेह्यबहुलं नानाविधं भुज्यतां,
भोज्यं भीममहानृपस्य सुतया संप्रेषितं सैनिकाः ॥ ११ ॥
,
आज्यमिति । हे सैनिका:-चमूचराः ! भीममहानृपस्य सुतया-भैम्या सम्प्रेषितं-मुक्तं नानाविधं अनेकप्रकारं भोज्यं - भक्ष्यं भुज्यताम् - अश्यताम् । अनेकविधत्वमेव दर्शयति, तद्यथा-प्राज्यं-प्रभूतं आज्यं धृतं च पुनः शाल्योदन: - कलमशाल्यादिरूपं अशनम् । किम्भूतः शाल्योदनः । अभिन्नकुन्दकलिकया- अस्फुटितकुन्दकोरकेण कल्यते-मीयते उपमीयते इति अभिन्नकुन्दकलिकाकल्यः । कलेरदन्तात् स्वराद् यः । केचित्तु पवर्गोपधं पठन्ति तदा तु स्पष्ट एव । अभिन्नकुन्दकलिकया कल्पः- सदृशः, ओदनशब्दः पुंक्लीबलिङ्गः। तथा अयं सूप:- सूदः । तथा धूपेन- गन्धद्रव्ययोगविशेषेण मनोहरा-वासिता शिखरिणी - रसाला । च पुनः स्वादूनि मृष्टानि रुच्यानि । सुन्दराणि वा शाकानि
१. फलकाः नास्ति अनू. । २ तस्या अनू. ।
Jain Education International
५२९
For Personal & Private Use Only
www.jainelibrary.org