SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ५२६ दमयन्ती-कथा-चम्पूः अनश्लीलं-प्रशंसनीयं शीलं-स्वभावः । तथा अस्य औदार्य-दातृत्वं, अनाहार्य-अनारोप्यं स्वाभाविकमित्यर्थः । तथा अस्य वचनं अवञ्चनं-न विद्यते वञ्चनं-विप्रतारणं यस्मिंस्तदवञ्चनं-अविप्रलम्भकं । तथा अस्य दानं अदैन्यं-दीनतारहितं, एवं दददप्यंसौ न दीनो जायत इति । तथा अस्य स्मितं-ईषद्धसितं अस्मयं-अगर्वं । तथा अस्य गाम्भीर्यगम्भीरता न विचारस्य गोचरः-विषयो यत्तत् अविचारगोचरं, एतावदस्मिन् गाम्भीर्यमस्तीति विचारयितुं न शक्यत इत्यर्थः । इति-पूर्वोक्तप्रकारेण भावयन्त्यः-अवधारयन्त्यः सत्यः ताश्च उचितविनोदैः-योग्यकुतूहलैः काञ्चिद्वेलामतिवाह्य-उल्लंघ्य, च-पुनः किमपि-किञ्चिद् गोष्ठीसुखमनुभूय, च-पुनः किञ्चिदिव-किञ्चित् दमयन्त्या यो विनोदविलासस्य व्यतिकरः-सम्बन्धस्तं आख्याय-उक्त्वा, इवशब्दोऽत्र वाक्यालङ्कारे, इति अभिधाय च अनुमता अनुज्ञातास्ता यथागतं-आगतमनतिक्रम्य यथागतं यत आयातास्तत्रैव अवगच्छन् । इतीति किम् ? देवः-राजा अस्मान् गमनाय आज्ञापयतु-आदिशतु, यतो भवतां वातैव अमृतं तस्य पानं अर्थयते-अभिलषतीत्येवंशीला भवद्वार्तामृतपानार्थिनी-भवत्सन्देशशुश्रूषुः देवी-दमयन्ती त्वरिता-उत्सुका सती अस्माकं या प्रत्यावृत्ति:-पश्चाद्वलनं तां अवेक्षमाणा कदा आगच्छेयुरिति विलोकयन्ती तिष्ठति । गतासु च तासु, प्रगल्भं प्रज्ञायाम्, अचरमं' वाचि, कलासु कुशलं, निपुणं नीतौ, सप्रतिभं सभायाम्३, आश्चर्यभूतमाहूय पर्वतकनामानं वामनकम्पायनीकृत्य कर्कशकर्कन्धफलस्थलोज्ज्वलमौक्तिकावली'मुख्यभव्यभूषणांशुकानिसंमानदानादरपरितोषित पुष्कराक्षपुरःसरेण किंनरमिथुनेन सह दमयन्ती प्रति प्रेषयामास । अथ तासु-दासीषु गतासु सतीषु प्रज्ञायां-बुद्धौ प्रगल्भं-प्रौढं, तथा वाचि-वाण्यां अचरमं-मुख्यं, तथा कलासु कुशलं-दक्षं, तथा नीतौ-न्याये निपुणं-चतुरं, तथा सभायांसदसि सप्रतिभं सबुद्धि, आश्चर्यभूतं-आश्चर्ययुक्तं आश्चर्यकरं वामनाकृतित्वाद् यं दृष्ट्वा आश्चर्यं जायत इत्यर्थः, पर्वतकनामानं वामनक-खर्वदेहं आहूय-आकार्य कर्कशानिकठिनानि यानि कर्कन्धूफलानि तद्वत् स्थूला-बृहती उज्ज्वला-विशदा या मौक्तिकावलीमुक्तालता सा मुख्या-वरेण्या येषां एवंविधानि यानि भव्यभूषणांशुकानि-सुन्दरालङ्कारवासांसि तानि उपायनीकृत्य-उपदीकृत्य सन्मानदानेन-आदरेण च परितोषितः-प्रमोदितो यः पुष्कराक्षः स पुरःसरः-अग्रेसरो यस्य तथाविधेन किन्नरमिथुनेन सह दमयन्ती प्रति प्रेषयामास-मुमोच । पुष्कराक्षकिन्नरमिथुनाभ्यां सह सोपायनं पर्वतकममुञ्चदिति समुदायार्थः । आश्चर्यभूतमिति "भूतं सत्योपमानयोः" । प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ १. विनोद नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy