SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः ५२५ सोऽपि स्मरव्यापारकोरकिताभिः शृङ्गाररससेकपल्लविताभिर्मुग्धस्मितांशुमञ्जरिताभिरमृतच्छटाभिरिव वाग्भिः किमपि सरलाभिः, किमपि नर्मोक्तिकुशलाभिः, किमपि कथयन्, किमपि पृच्छन्, किमपि संदिशन्, १जल्पमनुजल्पितम्, हासमनुहसितम्, सुभाषितमनु सुभाषितम्, प्रियमनुप्रियम्, प्रसादप्रदानोद्दीपितोद्दामानुरागास्ताः कुर्वन्नति चिरमिव गोष्ठीलीलयावतस्थे । सोऽपि-नल: एवं-एवं कुर्वन् अतिचिरं-बहुकालं यावत् गोष्ठीलीलया परस्पर-. संलापविलासेन-अन्योन्यवार्त्ताविनोदेन अवतस्थे-अस्थात् । किं कुर्वन् ? स्मरव्यापारेण कोरकिताभिः-कुड्मलिताभिः । तथा शृङ्गाररससेकेन पल्लविताभिः-किसलयिताभिः । तथा मुग्धस्मितांशुभिः-मनोज्ञहास्यकान्तिभिर्मञ्जरिताभिः । तथा अमृतच्छटाभिरिवआह्लादजनकत्वेन पीयूषच्छटोपमाभिः । *किमपि-किञ्चित् सरलाभिः-ऋज्वीभिः । किमपि-किञ्चित् नर्मोक्तौ-परिहासालापे कुशलाभिः-दक्षाभिः । तथा* किमपि-किञ्चित् कुटिलाभिः-काक्वोक्ताभिः अन्यमुखेन तदर्थं बोधयन्तीभिः । एवम्भूताभिर्वाग्भिः किमपिकिञ्चित् कथयन्, किमपि पृच्छन्, किमपि सन्दिशन्-तस्यै वार्ता निवेदयन्, तथा जल्पितं अनुलक्षीकृत्य जल्पितं, हसितं अनुलक्षीकृत्य हसितं, सुभाषितं-सूक्तं अनु लक्षीकृत्य सुभाषितं, प्रियं-इष्टं अनु लक्षीकृत्य प्रियं, अन्तस्था कुर्वन्निति क्रिया सर्वत्र योज्या । तथा प्रसादप्रदानेन-हारार्धहारादिवितरणेन उद्दीपितः-प्रकटित उद्दामः-उत्कटो अनुरागः-प्रेम यासु एवंविधास्ताः कुर्वन् । अनुजल्पमनुजल्पितमिति यदा क्वचित्पाठस्तदा अनुजल्पितमिति क्रियाविशेषणं, अनुगतं जल्पितं यत्रेति अनुजल्पितमित्यादिषु अनुयोगे द्वितीया । ___'अहो नु खल्वस्य नरपतेः अनश्लीलं शीलम्, अनाहार्यमौदार्यम्, अवञ्चनं वचनम्, अदैन्यं दानम्, अस्मयं स्मितम्, अविचारगोचरं गाम्भीर्यम्' इति भावयन्त्यस्ताश्च कांचिदुचितविनोदैरतिवाह्य वेलाम्, अनुभूय च किमपि गोष्ठीसुखम्, आख्याय च किञ्चिदिव दमयन्ती-विनोदविलासव्यतिकरम्, 'आज्ञापयतु देवोऽस्मान्गमनाय, भवद्वार्तामृत-पानार्थिनी देवीत्वरिता ऽस्मत्प्रत्यावृत्तिमवेक्षमाणा तिष्ठति इत्यभिधायानुमतास्ता:६ यथागतमगच्छन् । अहो ! इति अद्भुतं, नु इति वितर्के, खलुर्वाक्यालंकारे, अस्य नरपतेः-नलस्य ** चिन्हान्तर्गतपाठो नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy