SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ दमयन्ती- कथा - चम्पू: सुधापङ्कघटिता इवेत्यर्थः । तथा मधुमासेन - चैत्रेण विकासिता: - प्रफुल्लीकृता या: सहकारमञ्जर्यस्ता इव, मनोहरत्वादित्यर्थः । इतीति किम् ? इत इत:-अस्मिन् अस्मिन् प्रदेशे एत- आगच्छत । " इण् गतौ' [पा०धा० १०४५] इत्यस्य धातोराङ पूर्वकस्य लोट्मध्यमपुरुषबहुत्वे रूपम् । कुशलं - भद्रं तत्रभवतीनां पूज्यानां उपविशत-निषीदत, ताम्बूलं गृहणीत-क्रमुकफलपर्णचूर्णसंयोगस्ताम्बूलं, स्वस्वामिन्याः सन्देशं वार्तां आवेदयत कथयत । ५२४ ? ताश्च 'महानयं प्रसाद:' इति ब्रुवाणाः समुपविश्य 'राजाधिराज', राजीवदलदीर्घाक्षी क्षेमवार्त्ता पृच्छति 'न नाम देवस्यापघने धर्माशुधर्मार्मिनिर्मितः कोऽपि खेदः समपद्यत न वा समविषममार्गलङ्घनश्रमेण कापि परिमाथिनी परिजनस्य ग्लानिरभूत्, बहूनि दिनानि देवेनाध्वनि विलम्बितम् । इदं च तया प्राणेश्वर प्रियं प्राभृतं प्रहितम्, इदमुक्तम्, इदमेकान्तसंदिष्टम्, इदं प्रकाशप्रश्रयापलीलायितम् इति राजानमञ्जसा जजल्पुः । " ताश्च-दास्यो महानयं प्रसादः - अनुग्रहो यत् स्वयं स्वाम्येवं ब्रूत इति ब्रुवाणा: समुपविश्य निषद्य, हे राजाधिराज ! राजीवदलवद्दीर्घे अक्षिणी यस्या एवंविधा दमयन्ती भवतां क्षेमवार्त्तं-कुशलवार्तां पृच्छति - यथा भवतां कुशलमिति । नामेति - अभ्युपगमगर्भायां पृच्छायां देवस्य-राज्ञः अपघने - शरीरे घर्मांशुः - सूर्यस्तस्माज्जाता ये घर्मोर्मयः -परिस्वेदजलवीचयस्तैर्निर्मित:- जनितः कोऽपि खेदः - श्रमो न समपद्यत न जात: । न वेति पक्षान्तरगर्भायां पृच्छायां, समश्च - ऋजुर्विषमश्च दृषदादिभिः कठिनो यो मार्गस्तस्य यल्लंघनंअतिक्रमणं तस्माज्जातो यः श्रमस्तेन कापि - अल्पापि परिमथ्नाति - पीडयतीत्येवंशीता परिमाथिनी-दुःखजनयित्री ग्लानिर्बलहीनता - असक्तता परिजनस्य - सेनाया न वा अभूत्, सेना कुशलिनी वर्तत इत्यर्थः । " ग्लानिस्तु क्लमघः स्मृतः " [२/६०१ ] इति हलायुधः । तथा बहूनि दिनानि यावत् देवेन अध्वनि-मार्गे विलम्बितं विलम्बः कृतः । इदं च तयादेव्या प्राणेश्वरस्य-प्रियतमस्य प्रियं इष्टं प्राभृतं - ढौकनं प्रहितं - मुक्तम् । तथा इदं उक्तं । इदं एकान्ते-रहसि संद्विष्टं-सन्देश उक्त: । तथा इदं तस्याः प्रकाशः - प्रकटो यः प्रश्रयालाप:स्नेहालापस्तेन लीलायितं -विलासवद्भवनं अलीलावत् लीलावद्भवनं लीलायितं, तद्वति वर्त्तमानाल्लीला शब्दादायि प्रत्यये भाव ते च रूपम् । इयं प्रकटा प्रणयवार्त्ता उक्तास्तीति, इति- अमुना प्रकारेण राजानं नलं अञ्जसा - शीघ्रं जजल्पु: - कथयामासुः । स्वाम्येव अनू. I Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy