________________
सप्तम उच्छ्वासः
५२३ अपि च-पुनः काचित्-काञ्चित् सखीं सम्बोध्य ब्रूते
यं श्रत्वेति । हे सखि ! यं-नलं श्रुत्वैव देव्या-दमयन्त्या । गृहदीर्घिकायाःगृहवाप्यास्तटे ये तरवः-द्रुमास्तेषां या छाया तस्या य आश्रयः-आश्रयणं अङ्गीकारस्तस्मात् । 'गृहदीर्घिकातटतरुच्छायाश्रये' इति पाठे तु गृहदीर्घिकातटतरुणां या छाया सैवाऽऽश्रयःसद्म तस्मिन् , वासरा नीयन्ते-अतिवाह्यन्ते । विरहदुःखित्वात् सौधेषु स्थातुं न शक्यते, अतएव दिनानि तत्र गम्यन्त इत्यर्थः । किम्भूतया देव्या ? मनोभवेन-कामेन अलसे-मन्थरे दृशौ यस्याः सा तया । तथा धृत उन्मादः-उन्मत्तता यया सा तया । सोऽयं नैषधःनिषधदेशाधिपतिः-नलः प्राप्तः-आयातः । किम्भूतः ? शोणं-रक्तं यत् सरोजपत्रं-पद्मदलं तद्वन्नयने अर्थान्नेत्रप्रान्तौ यस्य सः, नेत्रयोः प्रान्तशोणत्वं च सल्लक्षणं । पुन: किम्भूतः ? निःशेषाः-समस्ता याः सीमन्तिन्य:-स्त्रियस्तासां भ्राम्यन्ति-अवलोकनाय तरलीभवन्ति यानि नेत्राणि तान्येव पतत्त्रिणः-पक्षिणस्तेषां विश्रमाय-खेदापनयनार्थं तरुरिव यः स । यथा भ्राम्यन्तः पक्षिणस्तरुषु विश्राम्यन्ति तथा युवती नेत्राण्यपि नले विश्राम्यन्ति, सौन्दर्यातिशयात्तत्रैव निश्चलीभवन्तीत्यर्थः । “आमादेस्तु विकल्पेन वृद्धिः, आमः अमः, चामश्चमः, विश्रामः विश्रमः" [ ] इति प्रक्रियाकौमुद्याम् । शार्दूलविक्रीडितम्
॥१०॥
एवमन्योन्यमभिधाय समीपमुपसृतास्ताः क्षितिपतिस्त्वनुराग तरङ्गतरत्तारकेण सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा संतोषपुञ्जमञ्जूषिका इव, आनन्दकन्दलीरिव, अमृतपङ्कपुत्रिका इव, मधुमासविकासित सहकारमञ्जरीरिव, दमयन्तीप्रेषिताः सस्पृहमवलोकयन्, 'इत इतरे एत कुशलं तत्र भवतीनाम्, उपविशत, गृह्णीत ताम्बूलम्, आवेदयत स्वस्वामिनीसंदेशम्,' इति ससंभ्रमं संभाषयामास ।
___ एवमिति । क्षितिपतिस्तु नलः एवं-अमुना प्रकारेण अन्योन्यं-परस्परं अभिधायउक्त्वा समीपमुपसृताः-समागतास्ताः दमयन्तीप्रेषिताः दासी: अनुरागः-प्रेमबन्धस्तस्य ये तरङ्गाः-परम्परास्तैस्तरन्ती-प्लवमाना तारका-कनीनिका यस्मिस्तत्तथाविधेन, तथा सादरं दूरं अतिशयेन उत्क्षिप्तानि-उच्चैः कृतानि पक्ष्माणि-नेत्ररोमाणि येन, तथाविधेन चक्षुषा सस्पृहंसाभिलाषं अवलोकयन् सन्, इति ससम्भ्रमं-सादरं यथा भवति तथा सम्भाषयामासवादयति स्म । किम्भूतास्ताः ? सन्तोषपुञ्जस्य मञ्जूषिका इव-पेटा इव, सन्तोषवतीरित्यर्थः । तथा आनन्दस्य कन्दलीरिव-प्ररोहानिव । तथा अमृतपङ्कस्य पुत्रिका इव-पाञ्चालिका इव,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org