________________
५२२
दमयन्ती-कथा-चम्पू: __ हहो इति ? हंहो ! इति सम्बोधने, हे हंसि ! हे चकोरि ! हे चन्द्रवन्दने ! हे चन्द्रप्रभे! हे चन्दने ! हे चम्पे ! हे चङ्गि ! हे लवङ्गि ! हे गौरि ! हे कलिके ! हे कक्कोलिके! हे मालति ! यूयं एतत् जन्मनश्च जीवितस्य च फलं जन्मजीवितफलं तत् प्राप्नुत । वः-युष्माकं नेत्राणि अस्मिन् नरपतौ-नले निर्वान्तु-वीक्षणेन शीती भवन्तु । किम्भूते नरपतौ ? लावण्यलक्ष्म्या निधिरिव यः स तस्मिन्, सर्वापि लावण्यलक्ष्मीरस्मिन् वर्तत इत्यर्थः । तथा सौभाग्यमेव अमृतं तेन निर्भरः-सम्पूर्णस्तस्मिन् सौभाग्यामृतनिर्भरे । अमृतपूर्णे हि ह्वदादौ स्नानादिना शीतीभवनं घटत एवेति छायार्थः । “सौभाग्यामृतनिर्झरे" इति पाठान्तरम् ॥ ८ ॥
अपि च
कुन्दे सुन्दरि' चन्दि नन्दिनि हले दिष्ट्याद्य वर्धामहे,३ देव्याः सोऽयमनङ्गसुन्दरवपुः प्राणेश्वरः प्राप्तवान् । तस्याः संप्रति यत्कृते कृशतनोः क्रीडावने शाखिनां,
दीर्घश्वासमरुद्भिरग्निपरुषैर्लायन्ति ते पल्लवाः ॥ ९ ॥ अपि च-पुन:
कुन्दे इति । हे कुन्दे ! हे सुन्दरि ! हे चन्दि ! चन्दे रञ्जनाह्लादार्थे नदादित्वात् ङीष्, हे नन्दिनि ! हे हले ! अद्य दिष्ट्या आनन्देन वर्धामहे इति हर्षातिशयोक्तिः । देव्याःदमयन्त्याः सोऽयं अनङ्गवत् सुन्दरं वपुर्यस्य स एवंविधः प्राणेश्वर:-प्रियतमः सम्प्रति प्राप्तवान्-प्राप्तः । स इति कः ? यत्कृते-यदर्थं यन्मिलनेच्छया कृशा-तन्वी तनुर्यस्याः सा तस्याः कृशतनोः तस्याः-दमयन्त्याः अग्निवत् परुषैः-कठोरस्पर्शः दीर्घा ये श्वासमरुतःनिश्वासवायवस्तैः कृत्वा क्रीडावने शाखिनां ते पल्लवा:-किसलयानि म्लायन्ति-विच्छाया भवन्ति । एतेन विरहाधिक्यं तस्याः दर्शितम् ॥ ९ ॥
अपि च
यं श्रुत्वैव मनोभवालसदृशा देव्या धृतोन्मादया, नीयन्ते गृहदीर्घिकातटतरुच्छायाश्रये वासराः । प्राप्तः शोणसरोजपत्रनयनो निःशेषसीमन्तिनीभ्राम्यन्नेत्रपतत्रिविश्रमतरुः सोऽयं नलो नैषधः' ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org