________________
दमयन्ती - कथा - चम्पूः
"
सविस्मयाः स्मररूपातिशायिनं नरपतिमवलोक्य 'साधु भोः स्वामिनि, साधु स्थानेऽभिनिविष्टासि, योग्ये जाताग्रहासि, पात्रे जातस्पृहासि १३, लप्स्यसे जन्मफलम्, अवाप्स्यसि स्त्रीस्वभावभाग्यम् १४ अनुभविष्यसि यौवनसुखानि, मानयिष्यसि संसारफलमहोत्सवम् " १५ 1 १६ वन्दनीया सा कापि पुरुषरत्नाकरकुक्षिर्जननी, यस्या: १७ सकलसंसारनरहारावलीमध्यमहानायकोऽयमुत्पन्नः' इत्यवधारयन्त्यो मनाङ्नमितमौलिदोलितसीमन्तमुक्ताफलाः 'स्वामिन्नयमस्मदीयः प्रणामः, अन्यापि क्वापि काचित्प्रणमति' इत्यभिधाय स्मयमानवदनकमला: सलीलमवनिपालं प्रणेमुः ।
अन्योन्यकृतसंबोधनाश्च सहर्षमिदमवोचन् ।
५२०
भूमुजि - नले एवं - अमुना प्रकारेण अनेकविधा ये वितर्कभङ्गाः - विकल्पभेदास्तान् भजतीति अनेकविधवितर्कभङ्गभाक् तस्मिन् सति । तथा सेवका ये समान्ताः - मण्डलेश्वरा राजानस्तेषु विसर्जितेषु यथास्थानं प्रेषितेषु सत्सु । किम्भूतेषु सेवकसामन्तेषु ? भुजबलेन शालन्ते-शोभन्ते इत्येवंशीला भुजबलशालिनस्तेषु । तथा परितः समन्तात् परिजने विरलीकृते - स्तोकीकृते सति । तथा परिहासेन - स्मितेन पेशला - मनोज्ञा आलापा येषां एवंविधा ये आप्तजनास्तैः सह यो गोष्ठीप्रक्रम:- संलापावसरस्तेन स्तोकसमये - अल्पकाले अतिक्रान्ते - निवृत्ते सति । भूरीणि प्रचुराणि भव्यानि - सुन्दराणि यानि आभरणानि - अलङ्कारा आवरणानि च - वासांसि तै रमणीयं रम्यं रूपं यासां ताः, एवम्विधा दमयन्त्याः प्रहिताः प्रथमं प्रधावित:- द्रुतमागतो यः प्रतीहारस्तेन सूचिता, यथा देव ! दमयन्तीप्रेषिता दास्यः समायान्तीति ज्ञापिता दास्यः प्रविविशुः - प्रवेशं व्यधुः । किम्भूता: ? काश्चित् आर्द्रक्रमुकफलानि हस्तयोर्यासां ता आर्द्रक्रमुकफलहस्ताः । *तथा काश्चित् कक्षायां अवलम्बिता:-धृताः ताम्बूलीपत्रपिण्डस्य नागवल्लीदलसमूहस्य करण्डिका-स्थगी याभिस्ता:* एवंविधाः । “पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिल्हयोः । कवले" [२।१२४|१२५] इत्यनेकार्थः । तथा काश्चित् पिहिता - आवृता पट्टांशुकानां पट्टकुलवाससां पटलिका पाण्योर्यासां ताः । तथा काश्चित् काश्मीरेण - घुसृणद्रवेण करम्बिता - मिश्रिता या कस्तूरिका तस्या य आमोद :- परिमलस्तेन अमन्दं प्रचुरं यच्चन्दनं तद्भजन्ति यानि तानि काश्मीरकरम्बितकस्तूरिकामोदामन्दश्चन्दनभाञ्जि, एवंविधानि भाजनानि - पात्राणि भजमाना - बिभ्रत्यः। तथा काश्चित् अवानानि - सार्द्राणि यानि नालिकेरजम्बीरबीजपूराणि तैः पूरिता-
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org