________________
दमयन्ती - कथा - चम्पूः
आसाञ्चक्रे निषसाद । अत्र इवशब्दो वाक्यालङ्कारे । किं कुर्वन् नलः ? इति - अमुना प्रकारेण तस्य- भीमस्य ये गुणास्तद्गुणास्तैः प्रवणा:- प्रह्वाः सहिता इत्यर्थः, याः कथास्ताः कुर्वन् । इतीति किम् ? अहो ! इति अद्भुतं अस्य विदर्भराजस्य - भीमस्य वात्सल्यं - स्निग्धता । अहो ! परमौदार्यं प्रकृष्टदातृत्वं । अहो ! लोकवृत्तिषु - लोकव्यवहारेषु कौशलंरक्षत्वं । अहो ! वाग्विभवस्य - वचनविलासस्य वैदग्ध्यं चातुर्यं । अहो ! प्रश्रयः - स्नेहः । च- - पुनश्चिन्तितवान् - इति चिन्तां कृतवान् ।
५१८
अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः । भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ ५ ॥
अन्विति । हि-स्फुटं इयं कार्यसिद्धिर्दमयन्तीप्राप्तिरूपा, यद्यपि अनुगुणानां - अनुकूलानां दमयन्त्यनुरागभीमबहुमाननादिरूपाणां घटनेन - संयोजनेन हस्तगतेव - हस्तप्राप्रेव भवति-विद्यते । अत्र भूधातु, सत्तार्थः । यदुक्तम्
"सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः ।
अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः ॥" [ ]
इति । तदपि तथापि वयं विधातुः - विधेर्न विश्वसिम: - न विश्वासं कुर्मः, विधिस्तु अन्यथापि विदध्यात् इति । किम्भूतस्य विधातुः ? भयेन तरल: - लोलो यो भुजङ्गस्तद्वत् वक्रा- कुटिला वृत्तिर्यस्य स तस्य । तरलत्वं चाऽन्यवक्रतातिशयहेतुः ॥ ५ ॥
अङ्गाः कङ्गकलिङ्गबङ्गमगधाः सर्वेऽप्यमी पार्थिवा, दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः । नो विद्मः कथमेष्यतीह घटनां कार्यं यतस्तत्क्षणान्नानाभंङ्गिभिरिन्द्रजालसदृशं दैवं विचित्रीयते ॥ ६ ॥
अङ्गा इति । अङ्गा:- अङ्गदेशाधिपतयः, तथा कङ्गाश्च कलिङ्गाश्च बङ्गाश्च मगधाश्च अङ्गकाङ्गकलिङ्गबङ्गमगधाः सर्वेपि अमी पार्थिवाः । तथा मरुत्पतिः - इन्द्रः प्रभृतौ - आदौ येषां ते मरुत्पतिप्रभृतयो दिक्पालाश्च यमवरुणकुबेराभिधाः कन्यां अर्थयन्ते-अभिलषन्तीत्येवंशीलाः कन्यार्थिनः संगताः - मिलिताः । कार्यं दमयन्तीवरणलक्षणं घटनां संयोजनां कथमेष्यतीति ? इह-प्रस्तावे नो विद्मः - न जानीमः । यतः - यस्मात् दैवं विधिर्विचित्रीयतेविशेषेण चित्रं - आश्चर्य करोति विचित्रीयते, सर्वस्यापि कौतुकं जनयतीत्यर्थः । " नभो वरिवश्चित्र ङ: क्यच् " [पा० सू० ३|१|१९] इति, आश्चर्यलेखनयोः क्यच्, अघटितं घटयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org