________________
सप्तम उच्छासः
५१७ कलाकारकर्पूरपारीपरिकरितताम्बूलार्पण प्रणयेन परितुष्टपरिजनपरिहासगोष्ठ्यारे च किमप्यभिनवम्, किमपि पुरातनम्, किमप्युत्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं शृण्वन्तौ तस्थतुः५ स्थवीयसीं वेलाम् । ___अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहानलंकुर्वन्तु भवन्तः' इति प्रणयेन विदर्भेश्वरं विससर्ज।
गते च तस्मिन्, 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लोकवृत्त कौशलम् , अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भराजस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तमिवासांचके ।
“चिन्तितवांश्च
एवं-अमुना प्रकारेण तौ-नलभीमौ उपक्रमेण-तदाद्याचिख्यासया अन्योन्यविवक्षितार्थप्रारम्भेण वा सह अविरुद्धा-अप्रतिकूला-अनुकूला या विद्वदालापलीलाविचक्षणसूक्तवचनविलासस्तया परस्परं-अन्योन्यं आश्यानं-अविलीनं यत्तुहिनं-हिमं तस्य यत् शिलाशकलं तदाकारं यत्कर्पूरं तस्य या पारी-खण्डं तया परिकारितं सम्बद्धं यत्ताम्बूलं तस्य अर्पणेन यः प्रणयः-स्नेहस्तेन भीमो नलाय दत्ते, नलस्तु भीमायेति । तथा परिजनेन सह या परिहासगोष्ठी-सविलासहास्यसंलापस्तया जल्पाका:-बहुजल्पनशीला ये जनास्तेषां जल्पितं-उक्तं शृण्वन्तौ सन्तौ स्थवीयसी-प्रचुरां वेलां तस्थतुः । अतिशयेन स्थूला स्थवीयसी स्थूलदूरेत्यादिना सिद्धिः । किम्भूतं जल्पितम् ? किमपि अभिनवं-नूतनं, किमपि पुरातनंजीर्णं, तथा किमपि उत्पाद्यं-बुद्ध्या परिकल्पितं, किमपि यथावस्थितं-यथास्वरूपनिवेदकम् । "उपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासा चिकित्सयोरपि । आरारम्भे" [४।२२२-२२३] इत्यनेकार्थः । जल्पाकेति "जल्पभिक्षकुट्टलुण्टवृङः षाकन्" [पा० सू० ३।२।१५५] इति षाकन् शीलार्थे ।
__ अनन्तरं-सुहृद्गोष्ठीकरणादूर्ध्वं अंशुमालिनि-सूर्ये अम्बरस्य-नभसो मध्यभागं अनुलक्षीकृत्य सरति-गच्छति सति, नल: प्रणयेन-स्नेहेन विदर्भेश्वरं-भीमं इति-अमुना प्रकारेण विससर्ज-प्रेषयामास । इतीति किम् ? भवन्तः स्वगृहान् अलङ कुर्वन्तु ।
तस्मिन्-भीमे गते च सति आप्त:-यथार्थवक्ता यो निजजनस्तेन सह मुहूर्त्तमिव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org