SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ ५१६ दमयन्ती-कथा-चम्पू: ब्रुवाण:-कथयन् तं-भीमं बहुमानयामास-बहुमानयति स्म गौरवयति स्म । इतीति किम् ? हे राजन् ! अखिलं-समस्तं यत् आत्मसर्वस्वं-स्वीयसर्वधनं राज्यादि तस्य उपनयनेनप्रापणेन दानेन इत्यर्थः, अलं-अलमिति वारणेऽव्ययम् । अलं भूषणपर्याप्तवारणेषु वीप्सायां द्वित्वम् । यतो भवतां दर्शनमेव अस्माकं इह अवसरे सार्णवाः-ससमुद्राः स्वर्णैः पूर्णा या वसुमती तस्या लाभादपि परम:-प्रकृष्टो लाभ: । हि:-यस्मात् प्रियतमस्य-अतिशयेन वल्लभस्य दर्शने यत्सुखं तस्मात् वित्तलाभसुखं न अतिरिच्यते-नाधिकीभवति । न चेति, भवतां विभवे-द्रव्येऽपि अस्माकं परस्य स्वमिदमिति बुद्धिर्न च, किन्तु स्वीयमेवेदमिति जानीमहे । नाऽपि भवतां शरीरेऽपि अनात्मभावः-अनात्माभिप्रायः, किन्तु भवतां शरीरमपि आत्मीयत्वेन जानीम इति भावः । किञ्चान्यत् । एवम्विधानि पूर्वोक्तानि सूनृतानि-सत्यानि सूक्तानि-सुभाषितानि तान्येव अमृतं तद्गर्भ-मध्ये यासां एवंविधाभिः गीर्भिः अस्मन्मन आनन्दयता-हर्षयता भवता-महानुभावेन महाप्रभावेण किं न कृतम् ? वा-अथवा प्रणयस्यस्नेहस्य उचितं-योग्यं किं न अभिहितं-उक्तम् ? एवंविधे च-परस्परप्रशंसनलक्षणे व्यतिकरे-प्रस्तावे वैतालिक:-मागध: प्रस्तुतंप्राकरणिकं अपठत्-पपाठ । अथ यद् अपठत् तदाह 'आपूर्वापरदक्षिणोत्तरककुष्पर्यन्तवेलावनादाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः । ब्रह्मस्तम्बविलम्बिकीर्तिलतयोविस्तारिलक्ष्मीकयो रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ ४ ॥ आपूर्वेति । नृपाः ! दीर्घायुषोः-चिरञ्जीविनोरनयो:-नलभीमयोः पूर्वापरदक्षिणोत्तरककुभां पर्यन्तेषु यानि वेलावनानि तानि आमर्यादीकृत्य आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावनात् मौलिषु-मस्तकेषु आज्ञां-आदेशं मालिकामिव-स्रजमिव कुर्वन्तु । यथा मालिका शिरसि ध्रियते तथैतयोराज्ञां शिरसि धारयन्तु इत्यर्थः । तथा युवयोरन्योन्यस्य-परस्परस्य स्नेहेन-प्रेम्णा च-पुनः सौख्येन दिनानि यान्तु । किम्भूतयोर्युवयोः। ब्रह्मस्तम्बे-ब्रह्माण्डे विलम्बिनी-लग्ना कीतिरेव लता ययोस्तयोः । पुनः किम्भूतयोः ? विस्तारिणी-विस्तरणशीला लक्ष्मीर्ययोस्तयोविस्तारिलक्ष्मीकयोः । "बहुव्रीहौ कः" [ ] । शार्दूलविक्रीडितम् ॥ ४ ॥ एवमुपक्रमाविरुद्धविद्वदालापलीलया परस्परमाश्यानतुहिनशिलाश Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy