SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः अद्यास्मद्गृहमागतस्य भवतो जाता विधेया वयं, स्वीकारः क्रियतां किमन्यदपरं प्राणेषु चार्थेषु च ॥ ३ ॥ आसेतोरिति । हे नल ! आसेतो :- सेतुमामर्यादीकृत्य च - - पुनर्विन्ध्यावधेःविन्ध्याचलसीम्नः आरात् - अर्वाक् तथा पूर्वापरसिन्ध्वोः -पूर्वापरसागरयोः सीमानं - पर्यन्तं आमर्यादीकृत्य आपूर्वापरसिन्धुसीमविषयाः देशास्तात् स्थ्यात् तद्व्यपदेशेन विषयवासिनो लोकास्त्वदीया या मुद्रा- आज्ञा तया मुद्रिता:- अङ्किता वर्तन्ते, त्वदाज्ञां सर्वेपि अङ्गीकुर्वत इत्यर्थः । किम्भूतात् आसेतो: ? कपीनां - हनुमदादीनां यत्कीर्त्तनं कीर्त्तिस्तदेव अङ्कः-लक्ष्म येषु एवंविधानि शिखराणि - कूटानि यस्य तत्तस्मात् सेतोः कपिभिः कृतत्वात् । अद्य अस्माकं गृहमागतस्य भवतो वयं विधेया - विनयस्था जाता:, आज्ञाकारिणो अभूमेत्यर्थः । अन्यत्-अपरं किम् ? अस्माकं प्राणेषु च अर्थेषु च द्रव्येषु च स्वीकार:-ममीकारः क्रियताम्, यथा अमीषां प्राणा अर्थाश्च अस्मदीया इति ॥ ३ ॥ एवमुपबृंहयति प्रेम, प्रकाशयति प्रियंवदताम्, उद्योतयत्युदारताम्, दर्शयत्यादरम्, आविर्भावयति सर्वभावम्, भीमभूभुजि, नलोऽपि 'सरलस्वभावः स्वच्छार्द्रहृदयोऽयं महानुभावः' इति चिन्तयन् 'अलमलमखिलात्मसर्वस्वोपनयनेन भवद्दर्शनमेवास्माकमिह सार्णवस्वर्णपूर्णवसुमतीलाभादपि परमो लाभः । नहि प्रियतमदर्शन'सुखाद्वित्तलाभसुखमतिरिच्यते । न च भवद्विभवेऽस्माकं परस्वबुद्धिर्नापि भवच्छरीरेऽप्यनात्मभावः । किं नान्यदेवंविधसूक्तसुनृतामृतगर्भगीर्भिरानन्दयतास्मन्मनो महानुभावेन किं न कृतमभिहितं वा प्रणयोचितम्" इति ब्रुवाणस्तं बहु मानयामास । ५१५ , Jain Education International - एवंविधे च व्यतिकरे वैतालिकः, प्रस्तुतमपाठीत् । एवं - अमुना प्रकारेण भीमभूभुजि प्रेम उपबृंहयति - वर्द्धयति सति । तथा प्रियंवदतांअनुकूलभाषित्वं प्रकाशयति सति । तथा उदारतां दातृत्वं उद्योतयति सति । तथा आदरंबहुमानं दर्शयति सति । तथा सर्वभावं - सकलैश्वर्यं आविर्भावयति सति । " भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योः " [ २/५४५५४६] इत्यनेकार्थः । नलोपि सरलः - ऋजुः स्वभावो यस्य स सरलस्वभाव: । तथा स्वच्छंविशदं आर्द्र-स्निग्धं हृदयं चेतो यस्य एवंविधोऽयं महानुभाव । इति चिन्तयन् सन्, इति For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy