SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः प्रथमसमागमेऽप्यप्रमेयप्रेमारम्भरभसोल्लासितहृदयः पुनः सोत्कर्षहर्षोभेदगद्गदाक्षरमिदमवादीत् । ५१४ इति- अमुना प्रकारेण अभिधाय उक्त्वा तस्य अतिथेः - नलस्य अतिथेयं'अतिथिसत्क्रियां अगर्वः- गर्वरहितः कुर्वन् सन् अमूनि - अमूनि वस्तूनि उपढौकयाञ्चकारप्राभृतीचकार । अतिथौ साधु आतिथेयं “ पथ्यतिथिवसतिस्वपतेर्दक्" [पा० सू० ४|४|१०४] । किम्भूतं आतिथेयम् ? प्रणयस्य - स्नेहस्य प्रवणं- प्रह्वं स्नेहानुकुलमित्यर्थः । तथा गुणानां - दाक्षिण्यादीनां प्रगुणं - अनुकूलम् । तथा कुलक्रमस्य - अन्वयपरिपाट्या अनुकूलं एतादृग्विधे- एतद् विधेयमेव । तथा भाग्योदयस्य योग्यं - उचितं, एवंविधे आतिथेये कृते कर्तुर्भाग्योदयो जातो ज्ञायते । तथा देशकालस्य - अवसरस्य सदृशं - समानं, अस्मिन्नवसरे इदं विधेयमित्यर्थः । तथा मान:- आगतातिथेः सत्क्रिया तस्मै या उत्सवसन्ततिः - उत्सवप्रवाहस्तस्याः समानं । तथा सम्पदां - समृद्धीनां सरूपं - सदृशं, यादृशी सम्पदो विद्यते तादृशीनां समानसम्पदानुसारी' इत्यर्थः । तथा आचारस्य विधे रुचितं कानि कानि वस्तूनि ? इत्याह–दुर्वारा:- वारयितुमशक्या ये वैरिणः-शत्रवस्तान् वारयन्ति-निषेधयन्ति ये दुर्वारवैरिवारणास्तथाविधान् वारणान् गजान् । तथा वायुवद् वेगः- रयो येषां ते वायुवेगा:सत्वरगामिनस्तथाविधान् तुरङ्गान् । तथा अमूल्यं - अनर्घ्यं समुल्लसितं - प्रादुर्भूतं यद् अंशुमञ्जरीजालं-किरणकलापस्तेन जनित इन्द्रचापचक्रस्य- सुरपतिधनुर्मण्डलस्य भ्रम:सन्देहो येन तत्, माणिक्यानामपि अनेकवर्णत्वात् इन्द्रधनुर्भ्रमोत्पादकत्वं, एवंविधं अप्रमाणंबहुलं माणिक्यजालं रत्नवृन्दं । तथा एकत्र - एकस्मिन् गुणे ग्रथिता:- गुम्फितास्तथा ताराप्रकारा:-तारासदृशाः स्निग्धवृत्तत्वादिगुणयोगात् ततः कर्मधारयस्तथाविधान् हारान्मौक्तिकलता:, “प्रकारः सदृशे भेदे " [ ३।६०८ ] इत्यनेकार्थः । तथा हास:- हास्यं तद्वत् समुज्ज्वला - विशदा भा: - छविर्येषां एवंविधानि वासांसि - दुकूलानि । तथा सलावण्या:ससौन्दर्याः पण्यनारीश्च - वाराङ्गना उपढौकयाञ्चकारेति क्रिया सर्वत्रापि योज्या । प्रथमसमागमेपि-अभिनवमिलनेपि अप्रमेयः - अगण्यो यः प्रेमारम्भ:- स्नेहोपक्रमस्तस्य यो रभसः- आदरस्तेन उल्लासितं - उच्छ्वासितं हृदयं - चेतो यस्य सः, एवम्विधः सन्, पुन:- भूयः सोत्कर्ष:- अधिको यो हर्षोद्भेदः प्रमोदोल्लासस्तेन गद्गदानिअव्यक्तान्यक्षराणि यत्ं एवं यथा भवति तथा इदं वक्ष्यमाणं अवादीत् उवाच । आसेतोः कपिकीर्तनाङ्कशिखरादाराच्च विन्ध्यावधेरापूर्वापरसिन्धुसीमविषयस्त्वन्मुद्रया मुद्रिता: १ । १. आतिथेयं अनू. । २. या दृश्यः अनू । ३. विद्यन्ते अनू. । ४. सम्पदनुसारी अनू. । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy