SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छ्वासः श्रिया हि एतदेव फलं यद् अतिथयः सत्क्रियन्ते । तथा अद्यैव यत्तदोर्नित्याभिसम्बन्धात् तत् जन्म च श्लाघ्यं-प्रशंस्यं मन्यामहे-जानीमहे । च-पुनस्तन्निजमपि जीवितं अद्यैव श्लाघ्यं मन्यामहे । यत्र जन्मनि जीविते च बहुना-प्रभूतेन अस्माकं सुकृतोदयेन-पुण्योदयेन यूयं गृहान् आगताः-प्रापाः । “गृहाः पुंसि च भूम्न्येव" [२, पुरवर्ग १५] इत्यमरः । शार्दूलविक्रीडितम् ॥ १ ॥ इतः प्रभृति च आ ब्रह्मावधिविस्तरत्कविगिरो गीर्वाणकर्णातिथेः, कीर्तेः पूर्णकलेन्दुसुन्दररुचो यास्याम्यहं पात्रताम् । किं चान्यज्जनितक्लमोऽप्ययमभूदाकण्ठतृप्तस्य मे, युष्मत्सङ्गसुखामृतेन सफलः संसारचक्रभ्रमः ॥ २ ॥ इतः प्रभृति च-अस्माद्दिनादारभ्य च आब्रह्मेति । अहं कीर्तेः पात्रतां-भाजनतां यास्यामि-यशोभाजनं भविष्यामीति भावः । किम्भूतायाः कीर्तेः ? ब्रह्मावधि-ब्रह्माण्डपर्यन्तं आमर्यादीकृत्य आब्रह्मावधि विस्तरन्ती-प्रसरन्ती कवीनां गीर्यस्यां सा तस्याः । तता गीर्वाणानां-देवानां कर्णयोरतिथिरिव या सा तैरपि या श्रूयत इत्यर्थः । तथा पूर्णकलेन्दुवत्-राकाशशाङ्कवत् सुन्दरा-धवला रुक्कान्तिर्यस्याः सा तस्याः, कविवर्ष्या याः स्वर्गताया इन्दुशुभ्रायाः कीर्तेः पात्रं जातः इत्यर्थः । किञ्च-पुनरन्यत्-अपरं किं युष्माकं सङ्गे-संयोगे यत् सुखं एव अमृतं-पीयूषं तेन आकण्ठं-कण्ठपर्यन्तं तृप्तस्य-आघ्रातस्य मे-मम जनितः क्लम:-खेदो येन एवंविधोप्ययं संसारचक्रभ्रमः-भवचक्रवालभ्रमिः सफलोऽभूत् । शार्दूलविक्रीडितम् ।। २ ।। इत्यभिधाय प्रवणं प्रणयस्य, प्रगुणं गुणानाम्, अनुकुलं कुलक्रमस्य, योग्यं भाग्योदयस्य, सदृशं देशकालस्य, समानं मानोत्सवसंततेः१, सरूपं रूपसंपदाम्ने, उचितमाचारस्य तस्या तिथेरातिथेयमगर्वः कुर्वन्, दुर्वारवैरिवारणान्वारणान्, वायुवेगातुरंगान्, अमूल्य समुल्लसितांशुमञ्जरीजालजनितेन्द्रचापचक्रभ्रम मप्रमाणं माणिक्यम्, एकत्र ग्रथितताराप्रकरान्हारान्, हाससमुज्ज्वलभांसि वासांसि, सलावण्याः पण्यनारीश्वा' यमुपढौकयांचकार । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy