SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः लावलीकीर्णमुखालंकृतम्, उच्चकाञ्चनसिंहासनद्वितयमुभौ ? भेजतुः । अन्योन्यकुशलप्रश्नसुखालापव्यतिकरविरामे च विदर्भेश्वरो निषध ५१२ नाथमवादीत् । तदनु-तयोर्मिलनानन्तरं पुनः - भूयः उभौ - भीमनलौ उच्चं - उन्नतं यत्काञ्चनस्य सिंहासनं तस्य यद् द्वितयं तत् भेजतुः- शिश्रियतुः । किम्भूतं उच्चकाञ्चनसिंहासनद्वितयम् ? प्रधाविताः-शीघ्रं तदानयनाय प्रवृत्ता ये प्रतीहारा: - दौवारिकास्तैरुपनीतं - उपढौकितम् । तथा अतिविचित्रेण-नानाविधेन त्रिभङ्गिभङ्गेन- स्थानकविशेषवैचित्र्येण उत्कीर्णानि घटितानि यानि कर्णाटिकारूपाणि-कर्णाटदेशोद्भवस्त्रीणामाकृतयः, सिंहासनादौ हि उत्तम्भन - स्तम्भिकासु पश्चिमभागे त्रिभङ्गिभङ्गेन स्त्रीरूपमुत्कीर्यते, अतस्तै रमणीयाः - रम्याः याः स्तम्भिका:लघुस्तम्भास्ता अवष्टम्भ: - आधारो यस्य तत्, तस्य एतदाधारे स्थितत्वात् । तथा उज्जृम्भमाणानि-विकस्वराणि कान्तिमति माणिक्यानि - रत्नानि यत्र एवंविधं यन्मकरमुखंप्रणाली तस्मिन् मुक्तो यो मौक्तिकसर: - मुक्ताहारस्तेन विराजितं - शोभितं । तथा अपूर्वकर्मणा-अद्भुतशिल्पेन निर्मिता घटिता भव्या-सुन्दरा या व्यालावली - व्यालः सिंहादिहिंस्रसत्त्वं तस्य या आवली - पंक्तिस्तस्याः कीर्णं - विस्तीर्णं यन्मुखं तेन अलङ्कृतं - विभूषितम् । सिंहासनादौ हि काष्ठदन्तादिनिर्मिता व्यालावलीशोभार्थं क्रियते । अन्योन्यं - परस्परं कुशलप्रश्नस्य सुखयतीति सुखः पचाद्यच्" [ सुखकारी यः आलापः- भीमेनोक्तं भवतां कुशलं, नलेनाप्युक्तं भवतां कुशलमित्येवंरूप उल्लापस्तस्य यो व्यतिकरः- सम्बन्धस्तस्य विरामे अवसाने विदर्भेश्वर:- भीमो निषधनाथंनलं अवादीत् । अद्येति । अद्य अस्माकं कुलसन्ततिः - अन्वयपरम्परा सुकृतिनी - पुण्यवती जाता । " सन्ततिस्तु तनये दुहितर्यपि । परम्पराभवे पंक्तौ गोत्रविस्तारयोरपि " [३।३३१] इत्यनेकार्थः । तथा अद्य दक्षिणादिक धन्या । तथा श्रियः - लक्ष्म्यः कृतार्था :- -सफला जाता:। किम्भूताः श्रियः ? पुण्यैः प्राप्यः समागमो येषां एवंविधा अतिथिजना यासु ताः । १. मुक्तो बद्धो । अद्यास्मत्कुलसन्ततिः सुकृतिनी धन्याद्य दिग्दक्षिणा, पुण्यप्राप्यसमागमातिथिजना जाताः कृतार्थाः श्रियः । श्लाघ्यं जन्म च जीवितं च निजमप्यद्यैव मन्यामहे यत्रास्मत्सुकृतोदयेन बहुना यूयं गृहानागताः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy