SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ४७९ परिरम्भ:-आश्लेषस्तस्य या आरम्भः - उपक्रमस्तेन रोमाञ्चितायाः - पुलकितायाः । किम्भूतः करीन्द्रः । मदेन मुकुलिते - संकुचिते चक्षुषी यस्य सः, तथा चाटुप्रियवाक्यं करोतीत्येवंशीलश्चाटुकारी | मालिनी ॥ ५८ ॥ अपि च उपनयति करे करेणुकाया: किसलयभङ्गमनङ्गसङ्गताङ्गः । स्पृशति च चलदक्षिपक्ष्मलेखं मुखमखरेण करेण रेणुदिग्धम् ॥५९॥ षष्ठ उच्छ्वासः अपि च- पुनर्मन्मथलीलामेव दर्शयति उपेति । अयं अनङ्गेन-कामेन सङ्गतं - अन्वितं अङ्गं - देहो यस्य स एवम्विधो गजेन्द्रः करेणुकाया: करे - शुण्डायां किसलयभङ्गं - पल्लवखण्डुं उपनयति-उपढौकयति ददातीत्यर्थः । च - पुनः करेणुकाया मुखं अखरेण सुकुमारेण करेण - शुण्डया स्पृशति - आमृशति । किम्भूतं मुखम् ? चलन्ती-स्फुरन्ती अक्ष्णोः पक्ष्मरेखा - नेत्ररोमराजिर्यस्मिंस्तत् । “लेखा स्यात् पंक्तिरेखयोः” [२/२५ इत्यनेकार्थः] तथा रेणुना - पांशुना दिग्धं लिप्तम् ॥ ५९ ॥ अथवा विवेकपूर्वव्यवहारविचारेष्वमी मानुषेभ्यः स्तोकमेवावहीयन्ते । अथवेति-पक्षान्तरे पूर्वमाश्चर्यपक्षः, सम्प्रत्येषां व्यवहारेषु ईषत् मनुष्येभ्यो हीनत्वात् घटत एवेदमिति दर्शयति विवेकपूर्वेति । विवेकपूर्वा:- चातुर्यसहिता ये व्यवहारविचारा:-मन्मथव्यापारविलासास्तेषु अमी गजा मानुषेभ्यः स्तोकमेव - अल्पमेव अवहीयन्ते - न्यूनीभवन्ति, बाहुल्येन मनुष्यसमाना एव भवन्तीत्यर्थः । “कर्म कर्त्तरि यक्" [ ] 1 तथाहि तथाहीति । मनुष्यसमत्वमेव वक्ति १ .२ श्रूयते पुराणादौ पुरा किल नारायणनाभ्यम्भोरुहकु हरकुटी मधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथन्तरविकीर्णभासमानानि४ सामानि गायतः सामस्तोभरसनिष्यन्दादुदपद्यन्तैरावतसुप्रतीककुमुदवामनाञ्जनप्रभृतयोऽष्टौ दिग्गजेन्द्राः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy