________________
४७८
दमयन्ती-कथा-चम्पूः
अव्यग्रं-अव्याकुलं अग्रे-पुरो गजग्रामण्यं-मुख्यं गजमवलोक्य पुष्कराक्षमभाषत । भद्र
सालानकमनालानमत्युन्नतमनुन्नुतम् ।
दन्तवन्तमदन्तं च पश्यैनमगजं गजम् ॥ ५७ ॥ हे भद्र !-पुष्कराक्ष !
सालेति । एवं प्रत्यक्षं गजं पश्य । किम्भूतम् ? अलीनां समूह आलं तदेव प्रत्यायकत्वात् आनक:-पटहस्तेन सह-युक्तं सालानकं, मदविधुरे हि गंजे भृङ्गाः समीपी भवन्ति तेन च मत्तो ज्ञायत इति भावः । तथा अनालानं-वन्यत्वात् निरर्गलनस्तम्भं । तथा अत्युन्नतं-अतीवोन्नतं उच्चं । तथा नास्ति नुन्नता-प्रेरणा यस्य स तं, स्वच्छन्दचरमित्यर्थः । यदि वा अनुन्नेति आमन्त्रणं तमिति गजविशेषणम् । तथा दन्तवन्तं-दन्तुरं । तथा अदन्तंतृणादिकमश्नन्तं । तथा अगजं-गिरिजं । अथवा सालान्-तरून् अदन्तं, तथा अकंअकुत्सितं सर्वलक्षणपरिपूर्णं तच्चे उच्चैः कुम्भ इत्यादिना वक्ष्यति ।। ५७ ।।
अयं हि मन्मथविलासेषु परं वैदग्ध्यमवलम्बते ।
अयं हि गजो मन्मथविलासेषु-सुरतक्रीडासु परं-उत्कृष्टं वैदग्ध्यं-चातुर्यं अवलम्बतेआश्रयति ।
तथाहितथाहीति । सुरतकेलिवेदाध्यमेवाह
मृदुकरपरिरम्भारम्भरोमाञ्चितायाः, सरसकिसलयाग्रग्रासशेषार्पणेन । मदमुकुलितचक्षुश्चाटुकारी करीन्द्रः,
शिथिलयति रिरंसुः केलिकोपं प्रियायाः ॥५८॥ मृद्वीति । रन्तुं-क्रीडितुमिच्छु: रिरंसुः करीन्द्रः प्रियायाः-हस्तिन्याः सरसानिस्निग्धानि यानि किसलयाग्राणि-पल्लवप्रान्तास्तेषां यो ग्रासः-कवलस्तस्य यः शेषःअवशिष्टो भागस्तस्य अर्पणेन-दानेन केलौ-क्रीडायां यः कोपस्तं शिथिलयति-मन्दीकरोति, एतां अनुनयतीत्यर्थः । किम्भूतायाः प्रियायाः ? मृदुः-सुकुमारो यः कर:-हस्तस्तेन यः
१. एनं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org