SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४७७ कर्णयन्नुत्थाय कृतोचिताचारश्चारुपुष्पचर्चित चन्द्रचूडचरणश्चटुलखुरचारप्रचारितेना डम्बरितताण्डवस्य खण्डपरशो: पदलीलामिवाभ्यस्यता स्फुर घुरघुरायमाणघोणाग्रस्खलत्खलीनवशाविगलितबहललालाजलप्लवेन वनभुवि फेनिलजलनिधिमिवाकारयता जात्यतरतुरगसैन्येन परिवृतः पूर्वप्रस्थान-स्थित्या प्रतस्थे । तदनु-पश्चात् पुनः- भूयः चलतः सैन्यसमूहस्य कलकलं कोलाहलं-आकर्षयन्शृण्वन् सन् उत्थाय-शय्यात उत्थानं विधाय कृत उचित आचारः-प्राभातिक-शौचादिर्येन एवम्विधो नलः जात्यतरा:-अतिशयेन सुन्दरा ये तुरगा:-अश्वास्तेषां सैन्येन परिवृतःसहितः पूर्वप्रस्थानस्य या स्थिति:-मर्यादा तया, यथा पूर्व-पूर्वदिनेषु प्रस्थितं तयैव स्थित्या प्रतस्थे-प्रचचाल । किम्भूतस्य सैन्यसमूहस्य ? प्रभातप्रहरे प्रयाणभेर्याः-प्रस्थानदुन्दुभेर्यो रवस्तेन विनिद्रितस्य-जागरितस्य । तथा समाश्च-अनिम्नोन्नता विषमाश्च-निम्नोन्नता ये वनविभागा:-काननप्रदेशास्तान् सम्पूरयत:-व्याप्नुवतः । कस्येव ? ऊर्ध्वं कल्लोला यस्य एवम्विधो जलनिधिः-अब्धिस्तस्येव । यथोद्वीचीः समुद्रः समविषमवनविभागान् सम्पूरयति तथाऽस्यापि । किम्भूतो नलः ? चारु यथा स्यात्तथा पुष्पैः-कुसुमैश्चर्चितौ-पूजितौ चन्द्रचूडस्य- शम्भोश्चरणौ येन सः । किम्भूतेन जात्यतरतुरंगसैन्येन ? चटुल:-चञ्चलः खुरैः कृत्वा यश्चारः-प्रगल्भपदन्यासस्तेन प्रचरति-प्रकर्षण गच्छतीत्येवंशीलं चटुलखुरचारप्रचारितेन । उत्प्रेक्ष्यते, आडम्बरितं आरब्धं ताण्डवं-नृत्यविशेषो येन एवम्विधस्य खण्डपरशोः-शम्भोः पादलीलां-चरणन्यासं अभ्यस्यता इव-शिक्षमाणेनेव । प्रकृत्यैव अश्वैश्चटुलतया गम्यते । तत्रोत्प्रेक्ष्यते, किमु नर्तनप्रवृत्तस्य हरस्य एभिः पादलीला शिक्ष्यत इति । पुनः किम्भूतेन ? स्फुरत्-प्रचलत् घुरघुरायमाणं-शब्दविशेषं कुर्वाणं यत् घोणाग्रंनासाग्रं तत्र स्खलत्-स्खलनां प्राप्नुवत् यत् खलीनं-कविका तद्वशेन विगलितं-क्षरितं यत् बहलं-घनं लालाजलं तस्य प्लव:-पूरो यस्य तत्तेन । उत्प्रेक्ष्यते, वनभुवि-वनभूमौ फेनिलःफेनवान् यो जलनिधिस्तं आकारयता इव-आह्वयतेव । शङ्के, अश्वानां अमूनि लालाजलानि न, किन्तु फेनिलोऽयं जलनिधिराहूत इति । फेनिलेति “फेनादिलच्च" [पा. सू. ५./२/९९] इति इलच् । स्थपुटस्थलीस्थितं स्थूलमेकमव्यग्रमग्रे गजग्रामण्यमवलोक्य पुष्कराक्षमभाषत । ततः स्थपुटस्थल्यां-विषमोन्नतभूमिप्रदेशे स्थितं स्थूलं-मांसलं एकं-अद्वितीयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy