SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ४७६ इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापितो, देवेन प्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ " [ दशरूपकटीका २/७ ] अन्यदपि प्रणालिकया-जलपद्धत्या परिक्षिप्यत एव । तारातिमिरपटले कस्मिन्निव ? उत्प्रेक्ष्यते, मुक्ताभिः स्तबकित:- कर्बुरितो नील:- कृष्णो यो वितानपट:- उल्लोचवासस्त-स्मिन्निव । शङ्के, अस्तगिरिशिरसि इदं तारातिमिरपटलपरिक्षितं नास्ति, किन्तु मुक्ताखचितं नीलवितानवास इति । ताराणां मुक्तास्तिमिरपटलस्य नीलवितानपट उपमा । पुनः कासु सतीषु ? पूर्वस्यां दिशि प्रभातप्रभावल्लरीषु नभस्तलं - आकाशमलङङ्कुर्वतीषु सतीषु । उत्प्रेक्ष्यते, भविष्यति उत्पत्स्यमाने दिनकरस्य उत्सवे-महे पट्टांशुकस्य-रक्तपट्टकूलवाससो वैजयन्तीष्विव पताकाष्विव । अन्यस्मिन्नपि उत्सवे क्रियमाणे रक्ता: पताका बध्यन्ते एव तथाऽत्रापि । पुनः क्व सति ? ईषन् - मनाक् अद्यापि सूर्यस्यानुद्गतत्वात् उन्मिषन्ति - विकसन्ति यानि कमलमुकुलानि पद्मकुड्मलानि तेषां मुखेभ्यो मुक्ता ये मधुकरास्तेषां मन्द्रध्वनौ - गम्भीरझङ्कारारवे श्रवणपथं श्रयति सति श्रूयमाणे सति । किम्भूते मधुकर - मन्द्रध्वनौ ? वल्लक्या: - वीणाया यः क्वाणः -रणस्तद्वद् रमणीये - रम्ये । अथ यं श्लोकं शुश्राव तमाह धुतरजनिविरामोन्मीलदम्भोजराजिस्तनुतुहिनतुषारानुद्गिरन्गन्धवाहः । कलितकलभकुम्भभ्रान्तिषूद्धाटितेषु, स्खलति निधुवनान्तश्रान्तकान्ताकुचेषु ॥ ५६ ॥ धुतेति । गन्धवाह: - वायुः उद्घाटितेषु - कञ्चुकरहितेषु निधुवनान्ते - सुरतावसाने श्रान्ताः-खिन्नाः याः कान्ताः -रमण्यस्तासां कुचेषु स्खलति - प्रतिघातं प्राप्नोति । अनेन मान्द्योक्तिः । किम्भूतेषु कुचेषु ? कलिता - कृता कलभकुम्भस्य-करिपोतमस्तकस्य भ्रान्ति:सन्देहो यैस्ते तेषु । किम्भूतो गन्धवाहः ? धुता - कम्पिता रजनिविरामे - रात्रिनिवृत्तौ उन्मीलन्ती - विकसन्ती अम्भोजराजि:- पद्मपंक्तिर्येन सः । अनेन सौगन्ध्योक्तिः । तथा तनव:-सूक्ष्मा ये तुहिनतुषारा:-हिमकणास्तान् उद्गिरन्-मुञ्चन् । अनेन शैत्योक्तिः । तथा च वायोः शीतो मन्दः सुरभिश्चेति पुण्यत्रय विशिष्टत्वं ध्वनितम् । मालिनी ॥ ५६ ॥ दमयन्ती - कथा - चम्पू: तदनु पुनःप्रभातप्रहर' प्रयाणभेरीरवविनिद्रितस्य संपूरयतः १ समविषमवनविभागानुत्कल्लोलजलनिधेरिव चलतः सैन्यसमूहस्य कलकलमा १. पटलं अनु. । २. गुणत्रय अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy