________________
४७२
दमयन्ती-कथा-चम्पू: गीतिः? भैरवीप्रभृतयः षड्विंशद्भाषास्तालाः-चञ्चत्पुटादयः बढ्यो भाषा यस्यां सा, तथा बहवस्ताला यस्यां सा । केव? उन्मत्तेव-क्षीबेव । किम्भूता उन्मत्ता ? बहु यत्तद्भाषत इति बहुभाषा, तथा बहुताला-बहवस्ताला यस्यां सा, उन्मत्ता हि बहु भाषते, बह्वीस्तालिकाश्च दत्त इति । तथा इयं गीतिः बहुः-घनो राग:-श्रीरागादिर्यस्यां सा, तथा बहुष्टक्वनामा रागो यस्यां सा । केव ? वेश्येव । किम्भूता सा ? बहुषु रागः-अभिलाषो अस्या इति बह्वासक्तिः, तथा बह्वीः-प्रभूताष्टक्वरा गच्छति-प्राप्नोतीति बहुटक्वरागा । टकशब्दोपलक्षिता क्रीडया कराहतिः टक्वरागमेः प्राप्त्यर्थाद् डः । पुनरियं गीतिः बहवः ककुभभेदाः-ध्वनिविशेषा यस्यां सा, तथा बहुलो निषादः स्वरविशेषः स्थानकं चमन्द्रमध्यतानलक्षणं यस्यां सा । केव? अटवीव । सा किम्भूता ? बहूनां ककुभानांअर्जुनवृक्षाणां भेदा यस्यां सा, तथा बहुलोरे निषादाश्च-शबराः स्थानकानि च-आलवालाः शिबिरसन्निवेशश्च बहुलानि निषादस्थानकानि यस्यां सा । एवं ज्वरितादि उपमानप्रतिपादितदोषा गीतिः कथंकारमिव दमयन्तीसमा ।
तद्वरमिदमुच्यताम्तत्-तस्माद् वरमिति मनागिष्टेऽव्ययम्, किञ्चित्प्रियमिदमुच्यताम्
वेदविद्योपमा देवी मनोहरपदक्रमा ।
उद्योतिता पुराणाङ्गमन्त्रब्राह्मणशिक्षया ॥ ५३ ॥ वेदेति । देवी-दमयन्ती वेदविद्यया उपमीयते-समीक्रियते या सा वेदविद्योपमा । किम्भूता देवी ? मनोहरः पदक्रमः-पदन्यासो यस्याः सा । तथा पुराणं-जीर्ण अङ्ग-वपुर्येषां ते तेषां, तथा मन्त्रप्रधानब्राह्मणानां-पुरोधःप्रभृतीनां च शिक्षया-उपदेशेन उद्योतितालब्धप्रतिष्ठा । वेदविद्या तु पदक्रमाभ्यामधीयते अतो मनोहरौ पदक्रमौ-वाक्यानुक्रमौ यस्यां सा । तथा पुराणानां-मार्कण्डेयादीनां अङ्गानां-शिक्षाकल्पादीनां मन्त्रब्राह्मणस्य-ग्रन्थविशेषस्य शिक्षया-अभ्यासेन उद्योतिता भूषिता । अन्तःपुरे हि वृद्धा एव अधिक्रियन्ते । यदुक्तम्
"अशीतिकाश्च पुरुषाः पञ्चाशत्काश्च योषितः । बुध्येरन्नवरोधानां शौचमागारिकाश्च ये ॥" "पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ।
त्राणे पादे पादचिह्ने व्यवसायापदेशयोः ॥" [२/२३२] इत्यनेकार्थः ॥ ५३ ॥
१. यस्याः अनू. । २. बहुलो नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org